________________
४०
चैकान्तेन निराकार्यत्वात्, तन्निषेधे च विधेयस्य संयमानुष्ठानस्य सामर्थ्यायातत्वात्तन्निषेधमाह-अणारद्धं च इत्यादि, अनारब्धम् - अनाचीर्णं केवलिभिर्विशिष्टमुनिभिर्वा तन्मुमुक्षुर्नारभते - न कुर्यादित्युपदेशो, यच्च मोक्षाङ्गमाचीर्णं तत्कुर्यादित्युक्तं भवति । यत्तद्भगवदनाचीर्णं परिहार्यं तन्नामग्राहमाह - 'छणं छणं' इत्यादि, “क्षणु हिंसायां" क्षणनं क्षणो-हिंसनं कारणे कार्योपचारात् येन येन प्रकारेण हिसोत्पद्यते तत्तज्ज्ञपिरज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेद्, यदि वा क्षण:- अवसरः कर्तव्यकालस्तं तं ज्ञपरिज्ञया ज्ञात्वाऽऽ सेवनापरिज्ञया च आचरेदिति !
किञ्च ‘लोयसन्नं' इत्यादि लोकस्य गृहस्थलोकस्य संज्ञानं संज्ञा - विषयाभिष्वङ्गजनितसुखेच्छा परिग्रहसंज्ञा वा तां च ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च परिहरेत् । कथं ? सर्वशः सर्वैः प्रकारैर्योगत्रिककरणत्रिकेणेत्यर्थः, तस्य एवंविधस्य यथोक्त गुणावस्थितस्य धर्मकथाविधिज्ञस्य बद्धप्रतिमोचकस्य कर्मोद्घातनखेदज्ञस्य बन्धमोक्षान्वेषिणः सत्पथव्यवस्थितस्य कुमार्गनिराचिकीर्षोहिंसाद्यष्टादशपापस्थानविरतस्यावगत लोकसंज्ञस्य यद्भवति तद् दर्शयति - उद्दिश्यते नारकादि व्यपदेशेनेत्युद्देशः स पश्यकस्य - परमार्थदृशो न विद्यते इत्यादीनि च सूत्राण्युद्देशकपरिसमाप्ति यावद् तृतीयोद्देशके व्याख्यातानि तत एवार्थोऽवगन्तव्यः आक्षेपपरिहारौ चेति । तानि चामूनि बालः पुनर्निह: कामसमनुज्ञः असमितदुःखः दुःखी दुःखानामेवावर्त्तनमनुपरिवर्तते । इतिः - परिसमाप्तौ ब्रवीमीति पूर्ववत् । (आचा० श्रु०१ अ० २ उ०६ सू०१०३ - १०४ ) 11/5
[43] न कम्मुणा कम्म खवेंति बाला, अकम्मुणा कम्म खर्वेति धीरा ।
मेधाविणो लोभमयावतीता, संतोसिणो नो पकरेंति पावं ॥ १५ ॥
किञ्चान्यत् - 'न कम्मुणा' इत्यादि, ते एवमसत्समवसरणाश्रिता मिथ्यात्वादिभिर्दोषैरभिभूताः सावद्येतरविशेषानभिज्ञाः सन्तः कर्मक्षपणार्थमभ्युद्यता निर्विवेकतया सावद्यमेव कर्म कुर्वते, न च 'कर्मणा' - सावद्यारम्भेण, 'कर्म'पापम्, 'क्षपयन्ति' - व्यपनयन्ति, अज्ञानत्वाद् बाला इव बालास्त इति, यथा च कर्म क्षिप्यते तथा दर्शयति- 'अकर्मणा तु' आश्रवनिरोधेन तु अन्तशः शैलेश्यवस्थायां कर्म क्षपयन्ति 'वीरा: ' - महासत्त्वाः, सद्वैद्या इव चिकित्सयाऽऽमयानिति । मेधा - प्रज्ञा सा विद्यते येषां ते मेधाविनः - हिताहितप्राप्तिपरिहाराभिज्ञाः, लोभमयं परिग्रहमेवातीताः - परिग्रहातिक्रमात् लोभातीताः - वीतरागा इत्यर्थः, सन्तोषिणः- येन केनचित्सन्तुष्टा अवीतरागा अपीति, यदिवा यत एवातीतलोभा अत एव सन्तोषिण इति, त एवंभूता भगवन्तः 'पापम्' असदनुष्ठानापादितं कर्म, न कुर्वन्ति - नाददति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org