________________
३२
[41] जे ममाइयमइं जहाइ से चयइ ममाइयं, से हु दिद्रुपहे मुणी जस्स नत्थि ममाइयं, तं परिण्णाय मेहावी विइत्ता लोगं वंता लोगसन्नं से मइमं परिक्कमिज्जासि त्तिबेमि ॥ ९८ ॥
ममायितं-मामकं तत्र मतिर्ममायितमतिस्तां यः परिग्रहविपाकज्ञो 'जहाति'परित्यजति स ममायितं स्वीकृतं परिग्रहं 'जहाति' परित्यजति, इह द्विविधः परिग्रहो द्रव्यतो भावतश्च, तत्र परिग्रहमतिनिषेधादान्तरो भावपरिग्रहो निषिद्धः, परिग्रहबुद्धिविषयप्रतिषेधाच्च बाह्यो द्रव्यपरिग्रह इति । अथवा काक्वा नीयते, यो हि परिग्रहाध्यवसायकलुषितं ज्ञानं परित्यजति स एव परमार्थतः सबाह्याभ्यन्तरं परिग्रहं परित्यजति, ततश्चेदमुक्तं भवति-सत्यपि संबन्धमात्रे चित्तस्य परिग्रहकालुष्याभावान्नगरादिसंबन्धः पृथ्वीसंबन्धेऽपि जिनकल्पिकस्येव निष्परिग्रहितैव, यदि नामैवं ततः किमित्याह-'से हु' इत्यादि यो हि मोक्षकविघ्नहेतोः संसारभ्रमणकारणात् परिग्रहान्निवृत्ताध्यवसाय:, हु:- अवधारणे, स एव मुनिः दृष्टो ज्ञानादिको मोक्षपथो येन स दृष्टपथः, यदिवा दृष्टभयः-अवगतसप्तप्रकारभयः शरीरादेः परिग्रहात्साक्षात्पारम्पर्येण वा पर्यालोच्यमानं सप्तप्रकारमपि भयमापनीपद्यत इत्यतः परिग्रहपरित्यागे ज्ञातभयत्वमवसीयत इति । एतदेव पूर्वोक्तं स्पष्टयितुमाह'जस्स' इत्यादि यस्य ममायितं स्वीकृतं परिग्रहो न विद्यते स दृष्टभयो मुनिरिति संबन्धः, किंच-तं इत्यादि, तं पूर्वव्यावणितस्वरूपं परिग्रहं द्विविधयाऽपि परिज्ञया परिज्ञाय मेधावी-ज्ञातज्ञेयो विदित्वा 'लोकं' परिग्रहाग्रहयोगविपाकिनमेकेन्द्रियादि प्राणिगणं वान्त्वा-उद्गीर्य, लोकस्य-प्राणिगणस्य संज्ञा-दशप्रकारा, अतस्तां स इति मुनिः किंभूतो ? मतिमान् सदसद्विवेकज्ञः 'पराक्रमेथा:-संयमानुष्ठाने समुद्यच्छेः, संयमानुष्ठानोद्योगं सम्यग् विदध्या इति यावद्, अथवाऽष्टप्रकारं करिषड्वर्गं वा विषयकषायान् वा पराक्रमस्वेति, इतिरधिकारसमाप्तौ, ब्रवीमीति पूर्ववत् । [आचा० श्रुत०-१ अध्य० २. उद्दे०-६. सू० ९८] 11/5
[42] से जं च आरभे जं च नारभे, अणारद्धं च न आरभे छणं छणं परिण्णाय..लोगसन्नं च सव्वसो । उद्देसो पासगस्स नत्थि बाले पुणे निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खाणमेव आवर्ल्ड अणुपरियट्टइ त्ति बेमि ॥ सू० १०३-१०४॥
स कुशलो यदारभते आरब्धवान् वा अशेषकर्मक्षपणोपायं संयमानुष्ठानं यच्च नारभते मिथ्यात्वाविरत्यादिकं संसारकारणम्, तदारब्धव्यमारम्भणीयमनारब्धमनारम्भणीयं चेति संसारकारणस्य च मिथ्यात्वाविरत्यादेः प्राणातिपाताद्यष्टादशरूपस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org