________________
योज्यम् । तत्रात्मात्मीयोपघातकारिणि क्रोधकर्मविपाकोदयात् क्रोधः, जातिकुलरूपबलादिसमुत्थो गर्वो मानः, परवञ्चनाध्यवसायो माया, तृष्णापरिग्रहपरिणामो लोभः, क्षपणोपशमक्रममाश्रित्य च क्रोधादिक्रमोपन्यासः, अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनस्वगतभेदाविर्भावनाय व्यस्तनिर्देशः, च शब्दस्तु पर्वतपृथ्वीरेणुजलराजिलक्षणलक्षकः क्रोधस्य, शैलस्तम्भास्थिकाष्ठतिनिशलतालक्षणलक्षको मानस्य, वंशकुडङ्गीमेषश्रृङ्गगोमूत्रिकाऽवलेखकलक्षणलक्षको मायायाः, कृमिरागकदमखञ्जनहरिद्रालक्षणसूचको लोभस्य, तथा यावज्जीव-संवत्सरचातुर्मास-पक्षस्थित्याविर्भावकश्चेति । तदेवं क्रोधमानमायालोभवमनादेव पारमार्थिकः श्रमणभावो न तत्सम्भवे सति यत उक्तम्-सामण्णमनुचरंतस्स, कसाया जस्स उक्कडा हुंति । मन्नंमि उच्छुपुर्फ व निप्फलं तस्स सामण्णं ॥ जं अज्जिअं चरित्तं देसूणाए वि पुत्वकोडीए । तं पि कसाइयमेत्तो हारेइ नरो मुहुत्तेणं ॥ स्वमनीषिकापरिहारार्थं गौतमस्वाम्याह-एयमित्यादि, एतद् यत्कषायवमनमनन्तरमुपादेशि तत् पश्यकस्य दर्शनं सर्वं निरावरणत्वात् पश्यति उपलभत इति पश्यः, स एव पश्यक:-तीर्थकृत् श्रीवर्धमानस्वामी तस्य दर्शनम् अभिप्रायो यदि वा दृश्यते यथावस्थितं वस्तुतत्त्वमनेनेति दर्शनम्-उपदेशो न स्वमनीषिका, किम्भूतस्य पश्यकस्य दर्शनमित्याह उवरय इत्यादि, उपरतं द्रव्यभावशस्त्रं यस्यासावुपरतशस्त्रः शस्त्राद्वोपरतः शस्त्रोपरतः भावे शस्त्रं त्वसंयमः कषाया वा तस्मादुपरतः, इदमुक्तं भवति-तीर्थकृतोऽपि कषायवमनमृते न निरावरणसकलपदार्थग्राहि परमज्ञानावाप्तिः, तदभावे च सिद्धिवधूसमागमसुखाभावः, एवमन्येनापि मुमुक्षुणा तदुपदेशवर्तिना तन्मार्गानुयायिना कषायवमनं विधेयमिति, शस्त्रोपरमकार्यं दर्शयन् पुनरपि तीर्थकर-विशेषणमाह-पलियंतकरस्स-पर्यन्तं कर्मणां संसारस्य वा करोति तच्छीलश्चेति पर्यन्तकरस्तस्यैतद् दर्शनमिति सण्टङ्कः । यथा च तीर्थकृत् संयमापकारिकषायशस्त्रोपरमात्कर्मपर्यन्तकृदेवमन्योऽपि तदुक्तानुसारीति दर्शयितुमाह आयाणमित्यादि आदीयते-गृह्यते आत्मप्रदेशैः सह श्लिष्यतेऽष्टप्रकारं कर्म येन तदादानं हिंसाद्याश्रवद्वारमष्टादशपापस्थानरूपं वा तत्स्थितेनिमित्तत्वात् कषाया वाऽऽदानं तद्वमिता स्वकृतभिद् भवति स्वकृतमनेकजन्मोपात्तं कर्म भिनत्तीति स्वकृतभिद् यो ह्यादानं कर्मणां कषायादि निरुणद्धि सोऽपूर्वकर्मप्रतिनिषिद्धप्रवेशः स्वकृतकर्मणां भेत्ता भवतीति भावः, तीर्थकरोपदेशेनाऽपि परकृतकर्मक्षपणोपायाभावात् स्वकृतग्रहणम्, तीर्थकरेणापि परकृतकर्मक्षपणोपायो न व्यज्ञायीति चेत्, तन्न तज्ज्ञानस्य सकलपदार्थसत्ताव्यापित्वेनावस्थानात् । [आचा० श्रुत०१ अध्य०३ उ०४ सू०१२१]
11/5
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org