________________
४१
क्वचित् पाठः, लोभभयादतीताः लोभश्च भयं च समाहारद्वन्द्वः, लोभाद्वा भयं तस्मादतीताः सन्तोषिण इति, न पुनरुक्ता शङ्का विधेयेति, अतो (विधेयाऽत्र यतो) लोभातीतत्वेन प्रतिषेधांशो दर्शितः, सन्तोषिण इत्यनेन च विध्यंश इति, यदिवा लोभातीतग्रहणेन समस्तलोभाभावः सन्तोषिण इत्यनेन तु सत्यप्यवीतरागत्वे नोत्कटलोभा इति लोभाभावं दर्शयन्नपरकषायेभ्यो लोभस्य प्राधान्यमाह ये च लोभातीतास्तेऽवश्यं पापं न कुर्वन्ति इति स्थितम् ॥ (सूयग० अ०१२, गा० १५) 11/5 श्रुत०१ [44] जहा कुम्मे सअंगाई, सए देहे समाहरे ।
__ एवं पावाई मेधावी, अज्झप्पेण समाहरे ॥ १६ ॥
जहा कम्मे इत्यादि-'यथे'त्युदाहरणप्रदर्शनार्थः, यथा 'कूर्मः'-कच्छपः, 'स्वान्य-ङ्गानि'-शिरोधरादीनि, स्वके देहे समाहरेद्-गोपयेद्-अव्यापाराणि कुर्याद्। एवम्-अनयैव प्रक्रियया मेधावी-मर्यादावान् सदसद्विवेकी वा, पापानिपापरूपाण्य-नुष्ठानानि, अध्यात्मना-सम्यग्धर्मध्यानादिभावनया, समाहरेत्उपसंहरेत, मरणकाले चोपस्थिते सम्यकसंलेखनया संलिखितकायः पण्डितमरणेनात्मानं समाहरेदिति ॥ १६ ॥ (सूयग० श्रुत०१ अ०८, गा०१६) 11/5
[45] आह- ज्ञानक्रिययोः सहकारित्वे सति कि केन स्वभावेनोपकुरुते ? किमविशेषेण शिबिकोद्वाहकवद्, उत भिन्नस्वभावतया गमनक्रियायां नयनचरणादिवातवद् इति, अत्रोच्यते, भिन्नस्वभावतया यत आह
णाणं पयासगं सोहओ, तवो संजमो य गुत्तिकरो। तिण्हं पि समाजोगे, मोक्खो जिणसासणे भणिओ ॥१०३॥
व्याख्या-तत्र कचवरसमन्वितमहागृहशोधनप्रदीपपुरुषादिव्यापारवदिह जीव- - गृहकर्मकचवरभृतशोधनालम्बनो ज्ञानादीनां स्वभावभेदेन व्यापारोऽवसेय इति समुदायार्थः । तत्र ज्ञायतेऽनेनेति ज्ञानम्, तच्च प्रकाशयतीति प्रकाशकम्, तच्च ज्ञानं प्रकाशकत्वेनैवोपकुरुते, तत्स्वभावत्वात्, गृहमलापनयने प्रदीपवत्, क्रिया तु तप:संयमरूपत्वाद् इत्थमुपकुरुते शोधयतीति शोधकम्, किं तदिति, आहतापयत्यनेकभवोपात्तमष्टविधं कर्मेति तपः, तच्च शोधकत्वेनैवोपकुरुते, तत्स्वभावत्वाद्, गृहकचवरोज्झनक्रियया तच्छोधने कर्मकरपुरुषवत्, तथा संयमनं संयमः, भावे अप्प्रत्ययः, आश्रवद्वारविरमणमितियावत, चशब्दः पृथग ज्ञानादीनां प्रक्रान्तफलसिद्धौ भिन्नोपकारकर्तृत्वावधारणार्थः, गोपनं-गुप्तिः स्त्रियां क्तिम् (पा० ३-३-९४) आगन्तुककर्मकचवरनिरोध इति हृदयम्, गुप्तिकरणशीलो गुप्तिकरः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org