________________
न हीनाक्षरमहीनाक्षरम् । अधिकाक्षरम् अत्यक्षरम् नाधिकाक्षरमनत्यक्षरमिति । विपर्यस्तरत्नमालागतरत्नानीव न व्याविद्धानि अक्षराणि यस्मिस्तदव्याविद्धाक्षरम्। उपलाकुलभूमिलाङ्गलवन स्खलितमस्खलितम् । न मिलितममिलितम्, असदृशधान्यमेलकवन विपर्यस्तपद-वाक्य-ग्रन्थमित्यर्थः, असंसक्तपदवाक्यविच्छेदं वेति । अनेकशास्त्रग्रन्थसङ्करात् अस्थानच्छिन्नग्रन्थनाद्वा न व्यत्यानेडितं कोलिकपायसवद् भेरीकन्थावच्चेत्यव्यत्यानेडितम् । अस्थानच्छिन्नग्रन्थनेन व्यत्यानेडितं यथाप्राप्तराज्यस्य रामस्य राक्षसा निधनं गते (ता इ) त्यादि । प्रतिपूर्ण ग्रन्थतोऽर्थतश्च, तत्र ग्रन्थतो मात्रादिभिर्यत् प्रतिनियतप्रमाणं छन्दसा वा नियतमानमिति, अर्थतः प्रतिपूर्णं नाम न साकाङ्कमव्यापकं स्वतन्त्रं वेति । उदात्तादिघोषाविकलं परिपूर्णघोषम् । आह-घोषसममित्युक्तम्, ततोऽस्य को विशेषः ? इति, उच्यतेघोषसममिति शिक्षितमधिकृत्योक्तम्, प्रतिपूर्णघोषं तूच्चार्यमाणं गृह्यत इत्ययं विशेषः। कण्ठश्चौष्ठौ च कण्ठोष्ठम्, प्राण्यङ्गत्वादेकवद्भावः, तेन विप्रमुक्तमिति विग्रहः, नाव्यक्त(क्त) बालमूकभाषितवत् । वाचनया उपगतं गुरुवाचनया हेतुभूतयाऽवाप्तम्, न कर्णाघाटकेन शिक्षितमित्यर्थः, पुस्तकाद्वा अधीतमिति । सः इति सत्त्वः, णमिति वाक्यालङ्कारे, तत्र आवश्यके वाचनया प्रतिप्रश्नेन परावर्त्तनेन धर्मकथया 'वर्तमानो द्रव्यावश्यक'मिति वाक्यशेषः, नोऽनुप्रेक्षया व्यापृतो द्रव्यावश्यकम्, कस्माद् ? अनुपयोगो द्रव्यमिति कृत्वा, अनुप्रेक्षया च तदभावात् । तत्र ग्रन्थतः शिष्याध्यापनं वाचना । अनवगतार्थादौ गुरुं प्रति प्रश्नः । ग्रन्थस्य पुनः पुनरभ्यसनं परावर्त्तनम्। अहिंसादिलक्षणधर्मान्वाख्यानं धर्मकथा । ग्रन्थार्थानुचिन्तनमनुप्रेक्षा । आहआगमतोऽनुपयुक्तो द्रव्यावश्यकमित्येतावतैवाभिलषितार्थसिद्धेः शिक्षितादिश्रुतगुणकीर्तनमनर्थकमिति, उच्यते-शिक्षितादि-श्रुतगुणकीर्तनं कुर्वन्निदं ज्ञापयति-यथेह सकलदोषविप्रयुक्तमपि श्रुतं निगदतो द्रव्यश्रुतं भवति द्रव्यावश्यकं च, एवं सर्व एव ईर्यादिक्रियाविशेषाः अनुपयुक्तस्य विकला इति, उपयुक्तस्य तु यथा स्खलितादिदोषदुष्टमपि निगदतः [भाव ?] श्रुतम्, एवमीर्यादयोऽपि क्रियाविशेषाः कर्ममलापगमायेति।
____एत्थ य अवायदंसणत्थं हीणक्खरम्मि उदाहरणम्-इहऽड्डभरहम्मि रायगिहं नगरं । तत्थ राया सेणिओ नाम होत्था । तस्स पुत्तो पयाणुसारी चउव्विहबुद्धिसंपन्नो अभओ णाम होत्था । अण्णया तेणं कालेणं तेणं समएणं समणे भगवं महावीरे इहऽङ्कभरहम्मि विहरमाणे तम्मि णगरे समोसरिंसु । तत्थ य बहवे सुर-सिद्धविज्जाहरा धम्मसवणनिमित्तं समागच्छिसु । ततो धम्मकहावसाणे णियणियभवणाणि गच्छंताणं एगस्स विज्जाहरस्स णहगामिणीए विज्जाए एक्कमक्खरं पम्हट्टमासी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org