________________
उपसंहारः
२१९ प्रदीपः। एतद्भावनभावपावनमनश्चञ्चच्चमत्कारिणां जीवानामेतस्य ग्रन्थस्य (भावनं)-भावना-आत्मतन्मयता तस्या भावा-अर्थोल्लासाः समाध्यवसायाः तैः पावनं-पवित्रं मन:-चित्तं तत्र चञ्चन्-मनोहारी चमत्कारो येषां ते तेषाम् । तैस्तैः निर्मलोपयोगलक्षणैः दीपशतैः सुष्ठु निश्चयो वस्तुधर्मः तस्य यद् ज्ञानं तदेव मतमिष्टं तेषां ज्ञानचमत्कारिणां दीपोत्सवः नित्यः-निरन्तरः, अस्तु-भवतु । इत्यनेन यथार्थज्ञानगृहीतात्मरसमग्नानां नित्यं दीपोत्सव एवास्ति ॥१३॥
केषांचिद्विषयज्वरातुरमहो चित्तं परेषां विषावेगोदर्ककुतर्कमूच्छितमथान्येषां कुवैराग्यतः । *लग्नालर्कमबोधकूपपतितं चास्तेऽपरेषामपि, स्तोकानां तु विकारभाररहितं तद् ज्ञानसाराश्रितम् ॥१४॥
केषांचिदिति-अहो इति आश्चर्ये, केषांचिज्जीवानां चित्तं-मनः विषया-इन्द्रियाभिलाषाः एव ज्वरः, तेन आतुरं-क्लिष्टं मनः अस्ति । पुनः परेषां केषांचित् मनः 'विषावेगोदर्ककुतर्कमूर्च्छितम् इति. विषस्यमिथ्यात्वस्य आवेग:-त्वरा तस्य उदर्क:-उदयः तेन कुतर्कस्तेन मूच्छितंव्याकुलीभूतं मनः अस्ति । अन्येषां-जीवानाम्, कुवैराग्यतः-दुःखगर्भमोहगर्भवैराग्यतः 'लग्नालर्क-लग्न: आलर्क:-हडकवाय इति लोकभाषा तेन पतितं मनः अस्ति । च-पुनः, अपरेषां-कुगुरुवाहितानां कुबोधपतितं-कुज्ञानपतितं मनः अस्ति । तु-पुनः, विकारा-इन्द्रियकामाः। तेषां भारः, तेन रहितम्, ज्ञानसाराश्रितं ज्ञानसारे-परमात्मस्वरूपे आश्रितं व्याप्तं मनः स्तोकानामस्ति । इह खलु जगति कामोद्विग्ना:-स्वरूपोपयोगलीनचित्ताः शुद्धसाध्यदृष्टयः पुरुषाः स्तोका एव ॥१४॥
* इह श्लोके 'अबोधकूपपतितम्' इति पदं वर्तते टीकायां तु कुबोधपतितम् इति पदस्य वृत्तिर्दृश्यते किमर्थमेतद् ? इत्यारेका ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org