________________
२२०
पुनः ग्रन्थाभ्यासरूपं फलं दर्शयति
जातोद्रेकविवेकतोरणततौ धावल्यमातन्वते, (ति) हृद्गेहे समयोचितः प्रसरति स्फीतश्च गीतध्वनिः । पूर्णानन्दघनस्य किं सहजया तद्भाग्यभङ्ग्याऽभवद्, नैर्तद्ग्रन्थमिषात्करग्रहमहश्चित्रं चरित्रश्रियः ॥१५॥
श्रीज्ञानमञ्जरी
जातोद्रेकेति—एतद्ग्रन्थमिषात्-ज्ञानसारग्रन्थाभ्यासव्याजात् चारित्रश्रियः करग्रहमह:-पाणिग्रहणमहोत्सवः प्रसरति इति संटङ्कः, शेषं स्वत ऊह्यम् ॥१५॥
3
भावस्तोमपवित्रगोमयरसैः लिप्तैव सर्वत्र भूः, संसिक्ता समतोदकैरथ पथि न्यस्ता विवेकस्रजः । अध्यात्मामृतपूर्णकामकलशश्चक्रेऽत्र शास्त्रे पुरः, पूर्णानन्दघने पुरं प्रविशति स्वीयं कृतं मङ्गलम् ॥१६॥ भावस्तोम इत्यादि वृत्तं- पूर्णानन्दघने - शुद्धात्मज्ञाने पुरं प्रविशति स्वीयं कृतं मङ्गलमिति वाक्यमित्यनादिसंसारसंसरणमिथ्यात्वासंयम
कषाययोगहेतुचतुष्टयोपचितज्ञानावरणादिकर्मवृतानन्तपर्यायस्य अंलब्धा
त्मसाधनस्य विषमरोगशोकादिकण्टकाकुलायामन्तरायोदयालब्धाहारादियोगारतितापतप्तायाम्, महाव्यसनसहस्रसिंहव्याघ्रव्याप्तायाम्, कुप्रावचनिकलुण्टाक धाटीहु ङ्कारगजितभीषणायाम्, कुदेववेतालत्रासितायाम्, इन्द्रियविषयसुखबुद्धिलक्षणभ्रान्तिमरुमरीचिकाभूमिभूतायाम्, स्त्रीविलासादिविषवृक्षच्छायायुतायाम्, महाटव्यां धनादिपिपासांव्यालोल
१. चैतद्० A.D., S. M., B. 1. । २. ग्रन्थाभ्यासात् सर्वप्रतिषु । ३. संसक्ता B.1., V.1.2. । ४. समितो० V. 1. 2, A. D. । ५. शुद्धात्मज्ञानपुरे प्रविशतः V.1.2., A.D., B.1.2., S.M. L.D.1. । ६. व्यथायाम् L.D. 1 । ७. विषये सुख० L.D.1 । ३८ भूमिभ्रमियाताम् L. D. 1 । ९. पिपासया लोल्यमात्रस्य L.D.1 ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org