________________
२१८
श्रीज्ञानमञ्जरी चारित्रमिति–पूर्णा विरतिः चारित्रं स्वरूपरमणम्, तत् ज्ञानस्यैव उत्कर्षः हीति निश्चितं ज्ञेयम् । ज्ञानस्य उत्कृष्टावस्था चारित्रम्, ज्ञाने एवैकत्वं चारित्रम् । आत्मनः मूलव्याख्यायां ज्ञानदर्शनगुणद्वयमयत्वमेव । उक्तं च-श्रीविशेषावश्यके, [142] उववाई उपांगेऽपि-असरीरा जीवघणा उवउत्ता दसणे य नाणेहिं [सू०४३] इत्यादिवचनात् । अतो ज्ञाने स्थिरत्वं चारित्रम् । ज्ञानस्यानन्दः सुखं ज्ञानप्रकर्षावबोधः सुखम्, इति भाष्योक्तेः । तथा ज्ञानस्यास्वादनं भोगः एवं भावना पृथग्गुणानां भावनापि विशेषावश्यके- यतः चारित्रज्ञानादयः पृथग्गुणा इच्छन्ति । इत्यादिकं तेन अत्रोपयोगमयस्यात्मनः ज्ञानं मुख्यत्वेनोच्यते । ज्ञानाद्वैतनये ज्ञानमेवात्मा ज्ञानमेव साध्यम्, ज्ञाननिरावरणता सिद्धिः, एवं दृष्टिः देया, किमर्थं ? तद्योगसिद्धये, ज्ञानयोगस्य सिद्ध्यर्थ-निष्पत्त्यर्थम् । अतो ज्ञानपूर्विका क्रिया हिता । तेन ज्ञाने स्पर्शाख्ये महान्' अभ्यासो विधेयः, इति रहस्यम् । ज्ञानत्यागेन सिद्धिः, सर्वत्र साधने ज्ञानमेव प्रधानमिति ज्ञानसारस्यार्थितया भवितव्यम् ॥१२॥
अथ श्रीमद्यशोविजयोपाध्यायैः एतद् ज्ञानसाराभिधं शास्त्रं रचितम् । तत्क्षेत्रादिप्रतिपादकं वृत्तमुच्यते
सिद्धि सिद्धपुरे पुरन्दरपुरस्पर्द्धावहे लब्धवान्, चिद्दीपोऽयमुदारसारमहसा दीपोत्सवे पर्वणि । एतद्भावनभावपावनमनश्चञ्चच्चमत्कारिणाम्, तैस्तैर्दीपशतैः सुनिश्चयमतैर्नित्योऽस्तु दीपोत्सवः ॥१३॥
सिद्धि सिद्धपुरे इति-अयं ग्रन्थः सिद्धपुरे नगरे सूत्ररचनया सिद्धि लब्धवान् । पुनः उदारसारमहसा-प्रधानसारतेजसा दीपोत्सवे पर्वणिदीपालिकादिने सम्पूर्णतां गतः । कथम्भूतोऽयं ग्रन्थः ? चिद्दीपः-ज्ञान
१. महदभ्या० V.1., B.1 |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org