________________
उपसंहारः
२१७ ज्ञानपूतां परेऽप्याहुः, क्रियां हेमघटोपमाम् । युक्तं तदपि तद्भावम्, न यद्भग्नापि सोज्झति ॥१०॥
ज्ञानपूतामिति-ज्ञानपूतां-ज्ञानेन पवित्राम्, क्रियां-शुभयोगव्यापारात्मकाम्, हेमघटोपमां (सुवर्णकलशसदृशीम्), परेऽपि-अन्ययूथिका अपि आहुः । एतद् युक्तम् । तदपि-हेमघटे भग्ने अपि, तद्भावंहेममौल्यं नोज्झति । तथा सद्ज्ञानयुक्ता क्रिया, ततः पतितस्य भग्नस्यापि नाधिकस्थितिबन्धः । बंधेण न वोलई कयावि इति वचनात् । ज्ञानी क्रियायुक्तः स्थितिक्षयं करोति । ततः पतितोऽपि तत् स्थितिस्थानं नातिक्रामति । अतो ज्ञानपूर्वका एव तथ्या । तथा च औपपातिकाङ्गे मिथ्यादृष्टिः एकान्तेन द्रव्ययतिर्लिङ्गक्रियायुक्तः नवमग्रैवेयकान्तं गच्छति । तथापि स्थितौ पूर्णबन्धक एव । सम्यग्दृष्टिप्रतिपत्तौ तत्पतितोऽपि मिथ्यात्वभावं गतोऽपि एककोटाकोट्यन्तरस्थितिं बध्नाति, नाधिकां बध्नाति । अतः ज्ञानस्याधिकत्वम् ॥१०॥ पुनः द्रढयतिक्रियाशून्यं च यद् ज्ञानम्, ज्ञानशून्या च या क्रिया ।
अनयोरन्तरं ज्ञेयम्, भानुखद्योतयोरिव ॥११॥
क्रियाशून्यमिति-यद्. ज्ञानं-तत्त्वावबोधः सत्स्वसंवेद्यैवेदनरूपम् क्रियाशून्यं-द्रव्यक्रिया आश्रवरोधनात्मिका तया शून्यम्, च-पुनः, क्रिया ज्ञानशून्या-तयोः अन्तरं भानुखद्योतयोरिव ज्ञेयम् । भानुतुल्यं ज्ञानम्, खद्योतप्रकाशतुल्या क्रिया ज्ञानशून्या ज्ञेया इति ॥११॥
चारित्रं विरतिः पूर्णा, ज्ञानस्योत्कर्ष एव हि ।
ज्ञानाद्वैतनये दृष्टिदेया तद्योगसिद्धये ॥१२॥ १. लिङ्गी V.1. । २. प्रतिपतितात् पतितोऽपि S.M. विना । ३. स्वसंवेदन० L.D.1. । ४. नयैः S.M., B.2. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org