________________
२१६
श्रीज्ञानमञ्जरी ऊर्ध्वगतिरेव स्यात्, अधःपातः कदापि न भवति, ऊर्ध्वता-द्रव्यतो जीवेभ्य उच्चत्वगोत्रोदयादिरूपा', क्षेत्रतः ऊर्ध्वलोकगमनरूपा, (कालतः....?) भावतः सम्यक्त्वाद्युत्तरोत्तरगुणारोहणरूपा, तेन यो ज्ञानगरिष्ठः स ऊर्ध्वत्वं-स्वर्गापवर्गलक्षणं सम्यक्चारित्रादिगुणलक्षणम् ऊर्ध्वत्वं प्राप्नोति ॥८॥
पुनः ज्ञानक्रियाभ्यां मोक्षः न ह्येकस्यापि विरोधकः साधको भवति, क्रिया हि वीर्यविशोधिरूपा, ज्ञानं च चेतनाविशोधिरूपम्, चेतना-वीर्ययोः शोधिप्राप्तयोः सतोः एव सर्वसंवरः । तथापि क्रियातः ज्ञानस्याधिक्यं दर्शयति
क्लेशक्षयो हि मण्डूकचूर्णतुल्यः क्रियाकृतः । दग्धतच्चूर्णसदृशो, ज्ञानसारकृतः पुनः ॥९॥
क्लेशक्षयो हीति-हीति निश्चितम्, क्रियाकृतः-क्रियोद्यमविहितः क्लेशक्षयः कर्मक्षयो मण्डूकचूर्णतुल्यो ज्ञेयः । यथा मण्डूकचूर्णं पुनः घनयोगतस्तत्रानेकाभिनवमण्डूकोत्पत्तिर्भवति, तथा-क्रियया अशुभकर्म क्षयति, तथापि शुभानां प्रचुरा वृद्धिः, पुनः शुभोपभोगकाले अशुभानां वृद्धिः इति ज्ञेयम् । पुरा-पूर्वम्, ज्ञानसारकृतः कर्मक्षयः दग्धतच्चूर्णसदृशः इति, इत्यनेन ज्ञानानन्देन कृतः कर्मक्षयः पुनः न प्रभवति । यथा-मण्डूकचूर्णः दग्धो न मण्डूकोत्पत्तिहेतुर्भवति, [46] एतदुपदेशपदात्सर्वं ज्ञेयम्, [उपदेशप० प्र० गा०१९१] आगमेऽपि- [141] सीलं सेयं सुअं सेयं, [भगवती० श० ८, उ० १०, सू० ३५५] इत्यालापकेन तथा पञ्चनिर्ग्रन्थीशतके मुनीनाम् अल्पश्रुतवताम् आहारादिसंज्ञास्ति, बहुश्रुतानाम् आहारादिसंज्ञानिषेध इति सर्वत्र योज्यम् ॥९।।
१. गोत्रोदयादि V.1., B.1.2., S.M. । २. ज्ञानानन्दकृतः L.D.1. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org