SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २१५ उपसंहारः निर्विकारमिति- महात्मनां-सम्यगात्मभावपरिणतानाम्, अत्रैवअस्मिन्नेव भवे मोक्षः । यद्यपि सकर्मकत्वे मोक्षाभावः एव, तथापि अत्रानन्दसमताशीलानां स्वभावसुखलीनानां वर्णिकारूपेण मोक्षस्यारोपः कथितः । कथंभूतानां महात्मनाम् ? निर्विकारं-विकाररहितम्, निराबाधंसर्वबाधा पुद्गलसंयोगरूपा तया रहितम्, ज्ञान-तत्त्वबोधः, तस्य सारंतत्त्वैकत्वरूपं चारित्रम् उपेयुषां-प्राप्नुवताम् । पुनः कथंभूतानां महात्मनाम्? विनिवृत्ता परस्य आशा येषां ते तेषां विनिवृत्तपराशानां-सर्वथा पुद्गलाशारहितानां निर्वाञ्छकानाम् इहैव मोक्ष इति ॥६॥ चित्तमार्दीकृतं ज्ञान-सारं सारस्वतोर्मिभिः । नाप्नोति तीव्रमोहाग्निश्लेषशोककदर्थनाम् ॥७॥ चित्तमिति-'ज्ञानसाराभिधं ग्रन्थं तस्य सरस्वती-वाणी तस्या इमे ऊर्मय:-कल्लोलास्तैः येषां चित्तम् आर्दीकृतम् तेषां जीवानां तीव्रो मोहाग्नेः आश्लेषः-तेन यः शोकः तस्य कदर्थना-पीडा, तां नाप्नोति । इत्यनेन ज्ञानसारासारवर्षणार्टीकृतचित्तानां मोहाग्नितापो न भवति ॥७॥ पुनस्तदेव कथयति अचिन्त्या कोपि साधूनाम्, ज्ञानसारगरिष्ठता । गतिर्ययोर्ध्वमेव स्यादधःपातः कदापि न ॥८॥ अचिन्त्या कापीत्यादि भो भव्य ! साधूनां-परमपदनिष्पादकानाम्, 'कापि अचिन्त्या-चिन्तितुमशक्या, ज्ञानसारगरिष्ठता अस्ति । ज्ञानंयथार्थस्वपरावबोधः, तस्य सारं चारित्रं-वैराग्यता तस्य गरिष्ठता-गरिमा गुरुत्वं तत्स्वरूपमचिन्त्यं-दुर्विचारम् । अन्या गुरुता अधोगमनहेतुः, ज्ञानगुरुत्वम् ऊर्ध्वताहेतुः, अत एवाचिन्त्येति । यया-गरिष्ठतया १. ज्ञानसाराभिधानं S.M., B.2. । २-३. क्वा S.M. विना सर्वप्रतिषु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy