SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २१४ तदेव तपः तेषां भूमिः स्थानं भवति एतत्स्वरूपनिरूपकमष्टकत्रयम्, (भावपूजाष्टकं ध्यानाष्टकं तयोऽष्टकं च ) । ततः सर्वनयाश्रयणं सम्यग् - ज्ञानं तत्प्ररूपकं द्वात्रिंशत्तममष्टकम् ||४|| एवं कारणकार्यपूर्वकाधिकारद्वात्रिंशत्फलकोपेतं ज्ञानसारं नाम यानपात्रम् । यदारूढाः मिथ्याज्ञानभ्रमणभीषणमतत्त्वैकत्वतारूपजलगम्भीरम्, असंयमपाथोधिमुल्लङ्घ्य सम्यग्दर्शनप्रतोलीमण्डितम्, सम्यग्ज्ञाननिधानोपेतम्, सम्यक्चारित्रानन्दास्वादमधुरम्, असंख्येयप्रदेशस्वसंवेद्यतत्त्ववेदकतासंपत्प्रवणम्, जिनप्रवचनप्राकारोत्सर्गापवादपरिखासंयुतम्, नयगमनिक्षेपानेकगुणौघं लभन्ते स्याद्वादपत्तनं भव्याः । इति ज्ञानसारफलोपदेशकं ग्रन्थस्य मौलिरूपमन्त्याधिकारमाह श्रीमत्पाठकेन्द्रः ||४|| स्पष्टं निष्टङ्कितं तत्त्वम्, अष्टकैः प्रतिपन्नवान् । मुनिर्महोदयं ज्ञानसारं समधिगच्छति ॥५॥ श्रीज्ञानमञ्जरी - स्पष्टं निष्टङ्कितमिति – मुनिः - त्रिकालाविषयी, अष्टकैः स्पष्टंप्रकटम्, तत्त्वं - वस्तुधर्म आत्मपरिणमनरूपम् निष्टङ्कितं निर्द्धारितम्, प्रतिपन्नवान् — अङ्गीकृतवान् । स मुनिः महोदयं - मोक्षरूपं ज्ञानसारं - ज्ञानस्य सारं चारित्रम्, तथा परां - मुक्तिम्, समधिगच्छति—प्राप्नोति । उक्तं च [140] सामाइअमाईअं, सुअनाणं जावबिंदुसाराओ । तस्स वि सारो चरणं, सारं चरणस्स निव्वाणं ॥ ११२६ ॥ [विशेषा० गा० ११२६] तं प्राप्नोति ॥५॥ निर्विकारं निराबाधम्, ज्ञानसारमुपेयुषाम् । विनिवृत्तपराशानाम्, मोक्षोऽत्रैव महात्मनाम् ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy