________________
उपसंहारः
२१३ विद्याविवेकेति- एवंविधः शुचिः, विद्याविवेकसम्पन्नः-विद्याश्रुताभ्यासः, विवेकः-स्वपरविभजनात्मकः, ताभ्यां सम्पन्नः, तत्कथिते विद्याष्टक-विवेकाष्टके । यो हि विद्याविवेकसम्पन्नः, स मध्यस्थ:इष्टानिष्टे वस्तुनि रागद्वेषरहितो भवति, तेन माध्यस्थ्याष्टकम् । मध्यस्थो हि भयरहितः, तेन भयविवर्जनाष्टकम् । भयरहितस्य नात्मश्लाघा इष्टा इत्यनेन अनात्मशंसा भवति तन्निरूपणाष्टकम् । यः लौकिकश्लाघाकीर्त्याद्यभिलाषरहितः स तत्त्वदृष्टिः, तेन तत्त्वदृष्ट्यष्टकम् । यस्य तत्त्वदृष्टिः स एव सर्वसमृद्धिः परमसंपदावान् भवति, तेन (सर्व-) समृद्धयष्टकम् ॥२॥
ध्याता कर्मविपाकानामुद्विग्नो भववारिधेः । लोकसंज्ञाविनिर्मुक्तः, शास्त्रदृग् निष्परिग्रहः ॥३॥
ध्यातेति यः समृद्धः स काले विचित्रविपाकोदये कर्मविपाकानां ज्ञाता ध्याता च भवति, (अतः कर्मविपाकाष्टकम्) । यः कर्मविपाकध्यानी स एव भवात्-संसारात् उद्विग्नः भवति, अत एव भवोद्वेगाष्टकम् । यः भवोद्विग्नः स लोकसंज्ञामुक्तो भवति, तेन लोकसंज्ञात्यागाष्टकम् । स एव शास्त्रम् च पुनः निष्परिग्रहः भवति । अत एव तत्प्रेरूपकाष्टकद्वयम् । (शास्त्राष्टकं परिग्रहाष्टकं च) ॥३॥
शुद्धानुभववान् योगी, नियागप्रतिपत्तिमान् । भावार्चाध्यानतपसां भूमिः सर्वनयाश्रयी ॥४॥
शुद्धेति, यो निष्परिग्रहः स एव शुद्धात्मतत्त्वानुभववान् भवति, तेनानुभवाष्टकम् । यः स्वरूपानुभवी स एव योगी-योगध्यानमयः, यः योगी स एव निश्चयेन कर्मयागकर्ता तत्प्ररूपकाष्टकद्वयम् (योगाष्टकं नियागाष्टकं च) । स एव भावार्चा-भावपूजा तथा ध्यान-ध्येयैकत्वं १. तत्कथको विद्याष्टक-विवेकाष्टको सर्वप्रतिषु । २. सर्वसमृद्धिमान् L.D.1. । ३. तत्स्व रूप० L.D.1. ।
૧૮
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org