________________
सर्वनयाश्रयणाष्टकम् (३२)
धावन्तोऽपि नयाः सर्वे, स्युर्भावे कृतविश्रमाः । चारित्रगुणलीनः स्यादिति सर्वनयाश्रितः ॥१॥
धावन्तोऽपि नया इति - सर्वे नयाः धावन्तः - स्वस्वपक्षस्थापनपुरःसरा अपि भावे-शुद्धात्मधर्मणि कृतविश्रमाः स्युः - स्थिरा भवन्ति । अतः मुनिः - चारित्रगुणलीनः - चयरिक्तीकरणं चारित्रं तदेव गुणः, तत्र लीनः-वर्द्धमानपर्यायः सर्वनयाश्रितः स्यात् । द्रव्यनये - कारणत्वग्राहके, भावनये-तत्कार्यत्वग्राहके, क्रियानये - साधनोद्यमरूपे, ज्ञाननये- तद्विश्रामरूपे, आश्रितः–आसक्तः स्यात् - भवेदित्यर्थः । उक्तं चानुयोगद्वारे[129] सव्वेसि पि नयाणं बहुविहवत्तव्वयं निसामित्ता । तं सव्वनयविसुद्धं, जं चरणगुणट्टिओ साहू ॥१॥ [सू० ६०६, प० १४१]
अत उक्तं श्रीभगवतीटीकायाम्
[48] जई जिणमयं पव्वज्जह, ता मा ववहारणिच्छए मुयह । इक्केण विणा तित्थं, छिज्जइ अन्नेण उ तच्चं ॥
अतः साम्यं हितम्, पुनस्तदेव द्रढयति
पृथग् नया मिथ: पक्ष प्रतिपक्षकदर्थिताः । समवृत्तिसुखास्वादी, ज्ञानी सर्वनयाश्रितः ॥२॥
२०५
पृथग्नया इति - एते मिथ: - परस्परम्, पृथग्-भिन्नं भिन्नम्, पक्षप्रतिपक्षकदर्थिताः- वादप्रतिवादकदर्थनाविडम्बिता नया दुर्नया इत्यर्थः । अत एव ज्ञानी यथार्थ भासनया सर्वनयाश्रितः - सर्वनयमार्गसापेक्षावबोधमग्नो भवति । कथम्भूतो ज्ञानी ? समवृत्तिः - इष्टानिष्टत्वताभावः, तस्य सुखास्वादनशीलः । उक्तं च
१. कृतविश्रामा: S. M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org