________________
२०४
श्रीज्ञानमञ्जरी येन हि जीवस्वभावरूपः शुद्धनिर्विकल्परत्नत्रयीलक्षणधर्मः प्रतीतः । स एव सम्यग्दृष्टिः । न हि कुशकासावलम्बनेन समुद्रतरणं भवति । उक्तं च श्रीहरिभद्रपूज्यैः
आयप्पभवं धम्म, आयंतियं अप्पणो सरूवं च । दसणनाणचरित्तेगत्तं जीवस्स परिणामं ॥१॥
रे भव्य ! हिताय वदामः । सर्वागमेषु धर्म आत्मनः शुद्धा परिणतिरेव । निमित्तस्योपादानप्राकट्यहेतुत्वाद् बाह्याचरणादिकं साधकैरभ्यस्यम्, तथापि धर्महेतुत्वेनोपादेयं श्रद्धावद्भिः तत् । स्वात्मक्षेत्रव्यापकरूपानन्तपर्यायलक्षणं धर्मः उत्तराध्ययनावश्यकादिसर्वसिद्धान्ताशयः इति । तच्च (स च) रागद्वेषरहितानां भवति । रागद्वेषाभावः सर्वजीवेषु सर्वपुद्गलेषु समत्वं कृत्वा आत्मगुणेषु ज्ञानादिषु कारणकार्यरूपेषु बहुपरिणतिपरिणतेषु रागद्वेषाभावपरिणतेषु गौणमुख्यत्वतारूपपरिणामपरिहारः समः साध्यः, पूर्वं मिथ्यात्वोदयेन मुख्ये मुख्यत्वबोधपूर्वकैकान्तवादः । स च सम्यग्दर्शनेन कारणकार्यतया अयं मुख्यश्चायं गौणः । न ह्यनन्तपर्यायात्मके वस्तुनि कस्यापि स्वपर्यायस्य गौणमुख्यत्वे, क्षयोपशमज्ञानेन सर्वधर्माणामेकसमयावबोधो दुर्लभः, असंख्येयसमयेनापि देशज्ञायकत्वात् । तस्य ज्ञानं गौणमुख्यतारूपेण प्रवर्तते । उक्तं च तत्त्वार्थ-[128] अर्पितानर्पितसिद्धेः [अ० १ सू० ३१] सूत्रस्य व्याख्याने, सर्वज्ञानां तु सर्वमपि एकसमयेनैव ज्ञातत्वाद् न गौणमुख्यताज्ञानम् । वचसि क्रमवर्तित्वाद् भवति । एवं न्यूनशक्त्या गौणमुख्यत्वम्, न रागद्वेषपरिणत्या । रागद्वेषपरिणामो बन्धहेतुः । अतः नयस्वरूपेण यथार्थबोधाय वस्तुविवेचनं हितम्, न रक्तद्विष्टता । तेन ज्ञानसाम्यं करणीयम् । ज्ञानसाम्यमेव चारित्रम् । तदर्थमेव निरूपयति
१. रभ्यस्यते L.D.1. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org