________________
ध्यानाष्टकम् (३०)
१९७ भवे-संसारे, नो दुर्लभं बाह्याचरणं जैनोक्तमपि बहुशः अभव्यैः कृतपूर्वमिति ॥५॥ अथ ध्यानकारकस्य स्वस्वरूपं निदर्शयन् श्लोकत्रयमाह
जितेन्द्रियस्य धीरस्य, प्रशान्तस्य स्थिरात्मनः । सुखासनस्य नासाग्र-न्यस्तनेत्रस्य योगिनः ॥६॥ रुद्धबाह्यमनोवृत्तेर्धारणाधारया रयात् । प्रसन्नस्याप्रमत्तस्य चिदानन्दसुधालिहः ॥७॥ साम्राज्यमप्रतिद्वन्द्वमन्तरैव वितन्वतः । ध्यानिनो नोपमा लोके, सदेवमनुजेऽपि हि ॥८॥
॥ इति ध्यानाष्टकम् ॥३०॥ जितेन्द्रियेति, रुद्धबाह्येति, साम्राज्यमिति, एवंविधस्य ध्यानिनः हीति निश्चितम्, सदेवमनुजेऽपि लोके-ससुरनरे लोके । तिर्यग्नारकाग्रहणं तु तयोर्दुर्गतित्वात् । इत्यनेन त्रिभुवने उपमानासादृश्यम् । तत्त्वज्ञानानुभवलीनस्य सहजानन्दविलासकस्य तुलना केन क्रियते ? इति । किं कुर्वतस्तस्य ? अन्तरेव-आत्मान्तरमध्ये एव अप्रतिद्वन्द्वं-बाह्याभ्यन्तरविपक्षरहितं सर्वपरभावागम्यं साम्राज्यं-स्वगुणसम्पत्स्वभावपरिवारोपेतं राज्यं स्वाधीनं वितन्वतः-विस्तारयतः स्वगुणानन्दासंख्येयप्रदेशनिर्व्याघातं स्वराज्यमनुभवतः । अतः सर्वाण्यपि षष्ठ्यन्तानि ध्यानिनो विशेषणानि संयोज्यानि । कथम्भूतस्य ध्यानिनः? जितेन्द्रयस्य-जितानि स्वरूपोपयोगीकृतानि पौद्गलिकवर्णादिष्वपरिणमनाद् जितानि इन्द्रियाणि येन सः तस्य । धीरस्य-स्ववीर्यसामर्थ्येन परीषहोपसर्गेऽकम्पस्य स्वरूपनिष्ठस्य । पुनः प्रशान्तस्य-कषायनोकषायोद्रेकरहितस्य । धीरः प्रशान्त एव आत्मानमास्वादयति, पुनः स्थिरात्मन:-स्थिरः आत्म
१. षष्ठ्यन्ता L.D.1 विना । २. विशेषणा: संयोज्या: L.D.1. विना । ३. क्लृप्ता V.1. । ४. शान्त S.M., B.1.2. ।
Jain Educat
International
For Private & Personal Use Only
www.jainelibrary.org