________________
१९८
श्रीज्ञानमञ्जरी स्वरूपरमणे आत्मा यस्य सः तस्य । सुखासनस्य-साधनपरिणतौ सुखमय आत्मा यस्य सः तस्य । पुनः (नासाग्रन्यस्तनेत्रस्य-) नासाग्रे चापल्यरोधनाय न्यस्ते स्थापिते नेत्रे येन सः तस्य । योगिनः-सम्यग्दर्शनज्ञानचारित्ररत्नत्रयीपरिणतस्य, (रुद्धबाह्यवृत्तेः)-रुद्धा बाह्येन्द्रियानुसारिणी मनसः वृत्तिर्येन स तस्य, इन्द्रियानुयायिमनोवृत्तिनिवृत्तस्य, कस्माद् ? (धारणाधारया रयात्) ध्येये चित्तस्य स्थिरबन्धनं धारणा, तस्या धारा 'तया रयाद्-वेगाद् । रुद्धमनसः तत्त्वध्यानं सुनिश्चितं भवति । पुनः प्रसन्नस्य-कालुष्यरहितस्य, अप्रमत्तस्य-अज्ञानाद्यष्टप्रमादनिवृत्तस्य । पुनः चिदानन्दसुधालिह:-चित्-ज्ञानं तस्यानन्दः, स एव सुधा अमृतं 'तां लिह्यतीति (लेढीति) तस्य लिहः-ज्ञानानन्दास्वादकस्य एतादृशस्य ध्यानिनः आत्मिकसाम्राज्यानुभवं विस्तारयतः तुल्यत्वं केन भवति ? न केनापि । अतः सर्वपरभावपरित्यागस्वरूपावलोकनतत्त्वैकत्वध्यानामृतस्वभोग्य-भोक्तुः परमसाम्राज्यम् । अतः सर्वप्रकारेण तदेव करणीयम् । यदर्थं रचयन्ति यमनियमप्रचारान्, संकोचयन्ति शरीरमासनमुद्रादिभिः, साधयन्ति रेचकपूरककुम्भकैः प्राणम्, वसन्ति निर्जने वने, त्यजन्ति सर्वेन्द्रियविषयान्, तत्साम्यसुखमूलमात्मैकत्वोपयोगं साध्यं स्वहितार्थिभिः ॥६-७-८॥
॥ इति व्याख्यातं ध्यानाष्टकम् ॥३०॥
अथ तपोऽष्टकम् ॥३१॥ अथ तपोऽष्टकं वितन्यते । तत्र पौद्गलिकसुखाभिलाषरङ्काणां यत्कष्टक्षमणम्, अथवा लोकसंज्ञाभीतानां पराधीनानां दीनतया आहारत्यागरूपं न तपः, आश्रवमूलत्वेन कषायोदयाश्रितत्वात् कर्मबन्धकत्वाच्च । पूर्वान्तरायोदयासातावेदनीयविपाक एव श्रीप्रज्ञापनावृत्ती
१. यस्य A.D., V.1. । २. तस्या रयात्-वेगात् L.D.1. । ३. तत् L.D.1 । ४. कुम्भकप्राणायामान् S.M., B.2. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org