________________
१९६
श्रीज्ञानमञ्जरी कषायविकल्पमलरहिते । पुनः किम्भूते ? क्षीणवृत्तौ-क्षीणा वृत्तिः पराजीविका यस्य सः क्षीणवृत्तिः । तस्मिन् एव समापत्तौ ध्यानसिद्धिः भवति इत्थं पूर्वोक्तप्रकारेण । अन्यत्रोक्तम्[127] मणेरिवाभिजातस्य, क्षीणवृत्तेरसंशयम् । तात्स्थ्यात्तदञ्जनत्वाच्च, समापत्तिः प्रकीर्तिता ॥१०॥
द्वा०द्वा० २०, श्लो०१०] अन्तरात्मनि परमात्मनः१-अभेदारोपो ध्यानफलं तच्च संसर्गारोपतो भवति । संसर्गश्चात्र निष्पन्नानन्ततात्त्विकसिद्धात्मनामुपयोगः स च चलचित्तानामिन्द्रियरोधमन्तरेण न भवति । इन्द्रियरोधश्च जिनप्रतिमादिकारणमन्तरेण न जायते । अतः स्थापना तत्त्वोपकारकारिका ॥३॥
आपत्तिश्च ततः पुण्य-तीर्थकृत्कर्मबन्धतः । तद्भावाभिमुखत्वेन, सम्पत्तिश्च क्रमाद्भवेत् ॥४॥
आपत्तिश्चेति-च-पुनः आपत्ति:-जिनभक्तितन्मयत्वं ततः पश्चात् 'पुण्यतीर्थकृत्कर्मबन्धतः-पुण्यप्रकृतिरूपं तीर्थकृद्-विश्वोपकारिसंघस्थापकातिशयरूपं नामकर्म तस्य बन्धतः तद्भावाभिमुखत्वेन तदुदययोगेन क्रमात् सम्पत्तिः भवेत्-परमैश्वर्यं भवेत् । इदं च निरनुबन्धरूपं फलं दर्शितम् ॥४॥ अथ ध्यानशून्यत्वेन सफलं नेति दर्शयति
इत्थं ध्यानफलाद्युक्तम्, विंशतिस्थानकाद्यपि । कष्टमात्रं त्वभव्यानामपि नो दुर्लभं भवेत् ॥५॥
इत्थमिति-इत्थं-पूर्वोक्तप्रकारेण, 'ध्यानफलात्'-त्रिविधध्यानोपयोगाद् विंशतिस्थानकाद्यपि-विंशतिस्थानतपःप्रमुखं गुणिबहुमानेन, युक्तंकर्तुमुचितम् । अभव्यानां तु-अन्यत् सम्यग्दर्शनादिगुणिबहुमानध्यानोपयोगशून्यं विंशतिस्थानादितपोव्यूहम्, कष्टमात्रं-कायक्लेशरूपम्, ३. परमात्मतः B.1.2.S.M. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org