________________
ध्यानाष्टकम् (३० )
रागादिभिरनाक्रान्तम्, क्रोधादिभिरदूषितम् । आत्मारामं मनः कुर्वन्, निर्लेपः सर्वकर्मसु ॥४॥ विरतः कार्मभोगेभ्यः, स्वशरीरेऽपि निःस्पृहः । संवेगहूदनिर्मग्नः, सर्वत्र समतां श्रयन् ॥५॥ नरेन्द्रे वा दरिद्रे वा, तुल्यकल्याणकामनः । अमात्रकरुणापात्रम्, भवसौख्यपराङ्मुखः ॥६॥ सुमेरुरिव निष्कम्पः, शशीवानन्ददायकः । समीर इव निःसङ्गः सुधीर्ध्याता प्रशस्यते ॥७॥
[ यो० शा ० प्र० ७ श्लो० २-७]
इति ध्यातृस्वरूपम् । एवंविधो ध्याता अन्तरात्मा - साधकात्मा । तु-पुनः, ध्येयः २ - ध्यातुं योग्यः, परमात्मा - क्षीणघातिकर्मा अर्हन्, नष्टाष्टकर्मा सिद्धो वा । वस्तुवृत्त्या सत्तागतः सिद्धात्मा ध्येयः प्रकीर्त्तितः । च - पुनः, ऐकाग्र्यसंवित्ति :- ऐकाग्र्यं तन्मयत्वेन परमात्मस्वरूपे अनन्तपर्यायात्मके एकाग्रत्वेन संवित्ति:- ज्ञानं ध्यानमुच्यते । इत्यनेन अर्हदादिशुद्धगुणज्ञानसंवेदनतन्मयता ध्यानम् । चेतनावीर्यादीनां सर्वक्षयोपशमानां स्वरूपोपयोगलीनत्वं ध्यानम् । तत्र ध्यातुः ध्येये तदेकाग्रतारूपे ध्याने समापत्तिः निर्विकल्पता तारतम्यरहिता चित्परिणतिः एकता ज्ञेया ॥२॥ तत्र दृष्टान्तेन कथयति
मणौ बिम्बप्रतिच्छायासमापत्तिः परात्मनः । क्षीणवृत्तौ भवेद् ध्यानादन्तरात्मनि निर्मले ॥३॥
+
१९५
मणौ बिम्बेति- यथा मणौ- रत्ने, बिम्बस्य प्रतिच्छाया तथा अन्तरात्मनि-स्वात्मस्वरूपे, परात्मनः - निर्मलात्मनः ध्यानात् समापत्ति:सिद्धात्मत्वस्वात्मत्वैकतारूपा भवेत् । कथम्भूते अन्तरात्मनि ? निर्मले
१. रागेभ्यः, S.M., V. 1., B.1., रोगेभ्य: A.D., V. 2. । २. ध्येयं S. M., A.D., B.1.2.. V.2. । ३. तदैकाग्रयता० A.D.V.2. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org