________________
१९४
अथ ध्यानाष्टकम् ॥३०॥
अथ ध्यानाष्टकं विस्तार्यते । ध्यानलक्षणं निर्युक्तौ - [21] अंतोमुहुत्तमित्तं, चित्तावत्थाण एगवत्थुमि । छउमत्थाणं झाणं, जोगनिरोहो जिणाणं तु ॥३॥ [ ध्या०श० गा० ३] नामादिकं स्वतो वाच्यम् । तत्र ध्यानस्वरूपं निरूपयन्नाह - ध्याता ध्येयं तथा ध्यानम्, त्रयं यस्यैकतां गतम् । मुनेरनन्यचित्तस्य, तस्य दुःखं न विद्यते ॥१॥
ध्याता ध्येयमिति - यस्य - पुरुषस्य ध्याता तथा ध्येयं तथा ध्यानमेतत् त्रयं यस्य जीवस्य एकताम् - एकभावं गतम्, तस्य मुनेः अनन्यचित्तस्य-तद्रूपचेतनामयस्य अर्हत्स्वरूपात्मस्वरूपतुल्योपयोगगृहीतस्य दुःखं - स्वगुणावरणरूपं पुद्गलसंनिकर्षजन्यम्, न विद्यतेनास्तीत्यर्थः । उक्तं च प्रवचनसारे
श्रीज्ञानमञ्जरी
[126] जो जाणदि अरिहंते, दव्वत्त- गुणत्त - पज्जवतेहिं ।
सो जाणदि अप्पाणं, मोहो खलु जादि तस्स लयं ॥८०॥ ध्याता-आत्मा, ध्येयं तत्स्वरूपम्, ध्यानं तत्रैकाग्रता । तत्र अभेदता, एतत् त्रयमेकत्वं प्राप्तं मोहक्षयाय भवति ॥१॥
ध्यातान्तरात्मा ध्येयस्तु, परमात्मा प्रकीर्त्तितः । ध्यानं चैकाग्रयसंवित्तिः, समापत्तिस्तदेकता ॥२॥ ध्यातेति—ध्यातृस्वरूपं चोक्तं- श्रीहेमसूरिपूज्यै:अमुञ्चन् प्राणनाशेऽपि, संयमैकधुरीणताम् । परमप्यात्मवत्पश्यन्, स्वस्वरूपापरिच्युतः ॥२॥ उपतापमसंप्राप्तः, शीतवातातपादिभिः । पिपासुरमरीकारि, योगामृतरसायनम् ॥३॥
Jain Education International
i
For Private & Personal Use Only
www.jainelibrary.org