SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ भावपूजाष्टकम् (२९) पूजात्रयमयो भव । इत्यनेन आभ्यन्तरपूजया तत्त्वानन्दमयं स्वचैतन्यलक्षणं स्वात्मानं तद्रूपं कुरु ॥६॥ उलसन्मनसः सत्य-घण्टां वादयतस्तव । भावपूजारतस्येत्थं, करकोडे महोदयः ॥७॥ उल्लसन्मनस इति-इत्थं भावपूजारतस्य तव महोदयः-मोक्षः करक्रोडे-हस्ततलेऽस्ति । किं कुर्वतः ? उल्लसन्मनसः-भावोल्लासयुक्तचित्तस्य सत्पर्यायरूपां घण्टां वादयतः-शब्दं कुर्वतः । इत्यनेन सहर्षसत्यमनउल्लासरूपां घण्टां नादयतः सतः पूर्वोक्तपूजाकरणेन सर्वस्वशक्तिप्रादुर्भावरूपो मोक्षो भवति ॥७॥ द्रव्यपूजोचिताभेदो-पासना गृहमेधिनाम् । भावपूजा तु साधूनामभेदोपासनात्मिका ॥८॥ ॥ इति व्याख्यातं भावपूजाष्टकम् ॥२९॥ द्रव्यपूजेति- गृहमेधिनां-गृहस्थानाम्, भेदोपासनारूपा-आत्मनः सकाशाद् अर्हन् परमेश्वरः भिन्नः निष्पन्नानन्दचिद्विलासी । तस्योपासना- सेवना निमित्तालम्बनरूपा द्रव्यपूजा उचिता-योग्या । तु-पुनः साधूनामभेदोपासनात्मिका परमात्मना स्वात्माभेदरूपा भावपूजा उचिता। यद्यपि सविकल्पकभावपूजा गुणस्मरणबहुमानोपयोगरूपा भावपूजा गृहिणां भवति, तथापि निर्विकल्पोपयोगस्वरूपैकत्वरूपा भावपूजा निर्ग्रन्थानामेव । एवमाश्रवकषाययोगचापल्यपरावृत्तिरूपेद्रव्यपूजाभ्यासेन अर्हद्गुणस्वात्मधर्मैकत्वरूपेभावपूजावान् भवति, तेन च तन्मयतां प्राप्य सिद्धो भवति । इत्येवं साधनेन साध्योपयोगयुक्तेन सिद्धिः निष्कर्मता भवति ॥८॥ ॥ इति व्याख्यातं भावपूजाष्टकम् ॥२९॥ १-२. रूपा-सर्वप्रतिषु ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy