________________
१९२
श्रीज्ञानमञ्जरी मदस्थानेति-मदः-मानोन्मादः तस्य स्थानानि तानि एव भिदाःभेदाः तासांरे त्यागैः-वर्जनैः, अष्टमङ्गलीम् अग्रे लिख । तथा ज्ञानाग्नौ शुभसंकल्प:-शुभरागपरिणामः तद्रूपं काकतुण्डं-कृष्णागरुं धूपय । इत्यनेन रागाध्यवसायाः शुभाः पुण्यहेतवः सिद्धिसाधने त्याज्या एव । अतः ज्ञानबलेन तत्त्यागो भवति ॥४॥
प्राग्धर्मलवणोत्तारम्, धर्मसंन्यासवह्निना ।। कुर्वन् पूरय सामर्थ्य-राजन्नीराजनाविधिम् ॥५॥
प्राग्धर्मेति-अत्रात्मस्वरूपार्चने धर्मसंन्यासवह्निना धर्म:- स्वरूपसत्ता सहजपारिणामिकलक्षणः चन्दनगन्धतुल्यः (तस्य३) सम्यग् न्यासः-स्थापनं स एव वह्निः तेन प्राक्-पूर्वसाधनरूपः धर्म:- सविकल्पभावनारूपस्तदेव(स एव)लवणं तस्योत्तार: निवारणं निर्विकल्पसमाधौ साधकस्यापि-सविकल्पकधर्मस्य त्याग एव भवति । एवं भावरूपम् अपवादसाधनरूपलवणोत्तारं कुर्वन् सामर्थ्यराजन्नीराजनाविधि-पूर्वसामर्थ्ययोगस्वरूपा राजन्ती-शोभमाना नीराजना-आरात्रिका तस्याः पविधिस्तं पूरय । सामर्थ्ययोगस्वरूपं च यत्र कर्मबन्धहेतुषु प्रवर्त्तमानवीर्यस्य न तादृक् प्रवृत्तिः स्वात्मधर्मसाधनानुभवैकत्वे प्रवर्त्तमानः निष्प्रयासत्वेन प्रवर्तते स योग: सामर्थ्य उच्यते ॥५॥
स्फुरन्मङ्गलदीपं च, स्थापयानुभवं पुरः । योगनृत्यपरस्तौर्यत्रिकसंयमवान् भव ॥६॥
स्फुरन्मङ्गलेति-च-पुनः स्फुरत्-देदीप्यमानम्, मङ्गलदीपंसर्वद्रव्यभावोपद्रवमुक्तं दीपं-भावप्रकाशम्, अनुभवं-स्पर्शज्ञानमात्मस्वभावास्वादनयुक्तं ज्ञानम्, पुर:-अग्रे स्थापय योगा:-मनोवाक्कायरूपास्तेषां साधनप्रवर्तनरूपं नृत्यं-(ताण्डवं) तत्र तत्परः सोद्यमः सन् परमाध्यात्मधारणाध्यानसमाधिरूपसाधनयोगाङ्गपरिणमनरूपतूर्यादि१. स्थानास्ते सर्वप्रतिषु । २. तेषां-सर्वप्रतिषु । ३. सर्वप्रतिषु नास्ति । ४. तारंB.1.2., S.M. I ५. विधिस्तां-सर्वप्रतिषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org