________________
भावपूजाष्टकम् (२९)
१९१
४
दयाम्भसा इति भक्तिश्रद्धानेति श्लोकद्वयस्य युग्मतो व्याख्यानं दुर्शयति । हे उत्तम ! एवंविधं शुद्धात्मानम् अनन्तज्ञानादिपर्यायम् आत्मरूपं देवं नव इति नवप्रकारब्रह्मरूपाङ्गतः अर्चय - पूजय । कीदृशो भूत्वा ? इत्याह- दया- द्रव्यभावस्वपरप्राणरक्षणारूपा सा एव अम्भ:जलं पानीयं तेन कृतं स्नानं - पावित्र्यं येन सः । संतोष:पुद्गलभावपिपासाशोकाभावरूपः ते एव शुभानि वस्त्राणि तेषां भृत् धारकः विवेक:- स्वपरविभजनरूपं ज्ञानं तदेव तिलकं तेन भ्राजीशोभमानः । पुनः कथम्भूतः ? भावना - अर्हद्गुणैकत्वरूपा तया पावनःपवित्रः आशयः - अभिप्रायः यस्य सः । पुनः भक्ति: - आराध्यता श्रद्धाप्रतीति: 'एस अट्ठे परमठ्ठे' एवंरूपा, (तद्रूपेण) घुसृणेन उन्मिश्रं पाटीरजं तस्य द्रवाः तैः शुद्धात्मा - परमेश्वरः स्वकीयात्मापि दीव्यति स्वरूपे इति देवस्तम् अर्चय - पूजय तद्भक्तिरतो भव इति ॥ १॥२॥
अथ अनुक्रमेण पूजाप्रकारानाह
क्षमापुष्पस्त्रजं धर्म- युग्मक्षौमद्वयं तथा । ध्यानाभरणसारं च तदङ्गे विनिवेशय ॥३॥
1
क्षमापुष्पस्रजमिति — हे भव्य ! तदङ्गे - आत्मस्वरूपरूपे अङ्गे क्षमां-क्रोधोपशमवचनधर्मक्षमारूपाम्, त्रजं - पुष्पमालाम्, विनिवेशयस्थापय । तथा - तथैव धर्मयुग्मं - श्रावकसाधुरूपं श्रुतचारित्ररूपं वा क्षौमवस्त्रद्वयं निवेशय । च पुनः ध्याने- धर्मशुक्ले ते एव आभरणस्य सारं - प्रधानम्, परमब्रह्मणि निवेशय । इत्येवं गुणपरिणमनरूपां पूजां कुरु ॥३॥
मदस्थानभिदात्यागैर्लिखाग्रे चाष्टमङ्गलीम् ।
ज्ञानाग्नौ शुभसंकल्प- काकतुण्डं च धूपय ॥४ ॥
१. द्वयम् सर्वप्रतिषु । २. आत्मा० सर्वप्रतिषु । ३. पूजां कुरु L. D. 1. । ४. कृतः स्नानः सर्वप्रतिषु । ५. शुभा - सर्वप्रतिषु । ६. क्षौम - चारित्रद्वयं S.M., B.1.2., V.2. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org