________________
१९०
श्रीज्ञानमञ्जरी ब्रह्माध्ययनेति-ब्राह्मणो-मुनिः श्रमणो द्रव्य-भावब्रह्मचर्ये रतः ब्राह्मणः, अधैः-पापैः न लिप्यते-न लेपवान् भवति । कथम्भूतः ब्राह्मणः? ब्रह्माध्ययनम्-आचाराङ्गप्रथमश्रुतस्कन्धनवमाध्ययनोक्तनिष्ठा-मर्यादा तद्वान्-तत्परिणतिपरिणतः । पुनः परब्रह्म-शुद्धात्मस्वरूपम्, तेन समाहितः-समाधिमयः । पुनः नियोग:-कर्मक्षपणम्, तस्य प्रतिपत्तिः सद्पतापरिणतः भिक्षुः पापैर्न लिप्यते, नावगुण्ठनावान् भवति । अत एव स्वस्वरूपभासनरमणपरिणतः अनादिकर्मपटलक्षयं कृत्वा सिद्धबुद्धः परमानन्दमयो भवति । अतो भावनियाग: कर्मदहनरूप: करणीय इति तत्त्वम् ॥८॥
॥ इति व्याख्यातं नियागाष्टकम् ॥२८॥
__अथ भावपूजाष्टकम् ॥२९॥ अथ द्रव्यपूजोपस्काररूपं भावपूजास्वरूपभावनोपचाररूपं भावपूजाष्टकं वितन्यते । तत्र गृहस्थः अनेकसंसारभारत्रस्तः कदाचिद् निर्विकारानन्दरूपां जिनमुद्रां विलोक्य प्राप्तवैराग्यः भवोद्विग्नः सर्वासंयमत्यागाभिलाषी परमसंवररूपं परमेश्वरं सद्भक्त्या पूजयति । स्वयोगस्वपरिग्रहादिकं सर्वथा त्यक्तुमसमर्थः सर्वमपि तीर्थकरभक्तियुक्तं करोति । ततश्च आत्मा स्वगुणपरिणतः स्वरूपसाधनारूपां भावपूजां करोति । तत्स्वरूपं नामतः पूजा इति कथनम् । स्थापनातस्तल्लिङ्गाचरणम् । द्रव्यतः चन्दनादिभिः शून्योपयोगेन च । भावतो गुणैकत्वरूपा सा व्याख्यायते
दयाम्भसा कृतस्नानः, सन्तोषशुभवस्त्रभृत् । विवेकतिलकभ्राजी, भावनापावनाशयः ॥१॥ भक्तिश्रद्धानघुसृणोन्मिश्रपाटीरजद्रवैः ।
नवब्रह्माङ्गतो देवम्, शुद्धमात्मानमर्चय ॥२॥ [युग्मम्] १.नियागं-सर्वप्रितषु । २. स्वयोगसपरि० V.1.A.D. विना । ३. तत्स्वरूपाम्V.2.A.D.B.2. । ४. काश्मी B.2.1.V.1.2. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org