________________
१८०
श्रीज्ञानमञ्जरी नुसारेण लक्षणादिकं निरूप्यते । तत्र स्थानस्वरूपं कायोत्सर्गादिजैनागमोक्तक्रियाकरणे करचरणासनमुद्रारूपम् । उक्तं च विंशतिकायाम्[111] ठाणुन्नत्थालंबणरहिओ तंतम्मि पंचहा एसो ।
दुगमित्थ कम्मजोगो, तहा तियं नाणजोगो उ ॥२॥ एष पञ्चप्रकारो योगः । विरतेषु-देशविरतसर्वविरतेषु नियमाद् भवति । योगपञ्चकं हि चापल्यवारणम्, तेन योगवता भवितव्यम् । अपरेषु-मार्गानुसारिप्रमुखेषु बीजमात्रं भवति–किंचिन्मात्रं भवति । उक्तं च विंशतिकायाम्[112] देसे सव्वे य तहा, नियमेणेसो चरित्तिणो होइ ।
इयरस्स बीयमित्तं, इत्तु च्चिय केइ इच्छंति ॥३॥ अत्र योगोत्पत्तिहेतवः प्रोच्यन्ते
कृपानिर्वेदसंवेग-प्रशमोत्पत्तिकारिणः । भेदाः प्रत्येकमत्रेच्छाप्रवृत्तिस्थिरसिद्धयः ॥३॥ कृपानिर्वेद इति- कृपा-अनुकम्पा, दुःखितेषु दुःखमोचनलक्षणः आर्द्रतापरिणामः । निर्वेदः-भवोद्वेगश्चतुर्गतिषु चारकवद्भासनम् । संवेग:-मोक्षाभिलाषः । प्रशम:-कषायाभावः । एते परिणामाः, योगो मोक्षोपायः । तस्योत्पत्तिकारिणः-करणशीलाः, एतादृक्परिणामपरिणतस्य संसारोद्विग्नस्य शुद्धात्मस्वादेच्छकस्य योगसाधना भवति । अत्र योगपञ्चके प्रत्येकम् एकैकस्य चत्वारो भेदा भवन्ति, ते च इमेइच्छा १ प्रवृत्तिः २ स्थिरता ३ सिद्धिः ४ इत्येवं भेदा ज्ञेयाः । उक्तं च विंशतिकायाम्[113] इक्किको य चद्धा, इत्थं पुण तत्तओ मुणेयव्वो ।
इच्छा-पवित्ति-थिर-सिद्धिभेयओ समयनीईए ॥४॥ इत्यादि ॥३॥ १. देशविरति० B.1.2., S.M., V.2. । २. संसारे उद्विग्नस्य S.M., V.2. ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org