________________
योगाष्टकम् (२७)
१७९ अथ योगाष्टकम् ॥२७॥ अथ योगाष्टकं वितन्यते । अत्र मिथ्यात्वादिहेतुगतमनोवाक्काययोगत्रयम् । तच्च कर्मवृद्धिहेतुत्वाद् न ग्राह्यम्, किन्तु मोक्षसाधनहेतुभूतं शुद्धोध्यात्मभावनाभावितचेतनावीर्यपरिणामसाधककारकप्रवर्त्तनरूपं ग्राह्यम् । द्रव्यभावभेदं बाह्याचारविशोधिपूर्वकाभ्यन्तराचारशुद्धिरूपम् ।
मोक्षेण योजनाद्योगः, सर्वोऽप्याचार इष्यते । विशिष्य' स्थानवालम्बनैकाग्र्यगोचरः ॥१॥
मोक्षेणेति- सकलकर्मक्षयो मोक्षः, तेन योजनाद् योगः उच्यते । स च सर्वोऽप्याचारः-जिनशासनोक्तचरणसप्ततिकरणसप्ततिरूपः, मोक्षोपायत्वाद् योग इष्यते । तत्र विशेषेण-(विशिष्य) स्थानं १ वर्णः २ अर्थः ३ आलम्बनम् ४ एकाग्रता ५ इति पञ्चप्रकारो योगः मोक्षोपायहेतुः मतः । २इत्यनेनानादिपरभावासक्तभवभ्रमणग्रहात् पुद्गलभोगमग्नानां न भवति । अयमभिप्रायः-यतोऽस्माकं मोक्षः साध्योऽस्ति स च गुरुवचनस्मरण-तत्त्वजिज्ञासादियोगेन स्वरूपं निर्मलं निस्सङ्गं परमानन्दमयं संस्मृत्य तत्कथाश्रवणप्रीत्यादिकं करोति । स परम्परया सिद्धियोगी भवति । नहि मरुदेवीवत् सर्वेषामल्पप्रयासात् सिद्धिः । तस्या हि अल्पाशातनादोषकारकत्वेन निष्प्रयासा सिद्धिः । अन्यजीवानां चिराशातनाबद्धगाढकर्मणां तु स्थानादिक्रमेणैव भवति ॥१॥ . अथ योगपञ्चके बाह्यान्तरङ्गसाधकत्वमुपदिशति
कर्मयोगद्वयं तत्र, ज्ञानयोगत्रयं विदुः । . विरतेष्वेव नियमाद्, बीजमानं परेष्वपि ॥२॥
कर्मयोगेति- तत्र मोक्षसाधने योगद्वयम्, कर्मयोगद्वयं क्रियाचरणायोगरूपं त्रयम् अर्थप्रमुखं ज्ञानयोगं विदुः-प्राहुः बुधाः । तत्र विंशतिका
१. शुद्धात्म० A.D., v.1. विना । २. विशेष० S.M. (संशो.) । ३. इत्यनादि० B.2., S.M., V.2. । ४. अनल्पा० A.D., V.1।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org