________________
अनुभवाष्टकम् (२६)
१७५ पर्यायपरिणतिवैचित्र्यज्ञानास्वादनैकत्वविश्रान्तिलक्षणः । अत्र भावानुभवावसरः । स च नैगमतः तदिच्छकस्य । संग्रहतः उपयुक्तानुपयुक्तस्य तत्कारणाश्रितयोग्यत्वे । व्यवहारतः श्रुताभ्यासवाचनाप्रच्छनाभोक्तुः । ऋजुसूत्रेण मनसो विकल्परोधपूर्वकतन्मयत्वे वर्तमानस्य । शब्दनयेन ज्ञानोपयोगगृहीतानन्तधर्मात्मकात्मद्रव्यानन्ताज्ञानानुभवे सति । समभिरूढनये तु मुख्यज्ञानदर्शनगुणात्मकत्वात्मनि तद्रमणतद्भोगतदैकत्वरूपानुभवः । एवंभूतनयेनैकमुख्यपर्यायतन्मयत्वानुभवः । अत्र यस्यानुभवस्तस्य भावना कार्या । इत्येवंस्वरूपानुभवमन्तरेण ज्ञानाचेरणादिकं द्रव्यरूपमेव, अतः सानुभवेन भवितव्यम् । सर्वत्र गुणपरिणतौ अनुभवेनैवानन्दता, नो चेत् शब्दज्ञानशून्यशब्दश्रवणवत् अपार्थकमेवेति । ३श्रूयते च कष्टानुष्ठानकोटिकरणेऽपि न तत्त्वप्राप्तिः, कुलवालकादीनामिवानुभवमन्तरेण । परिग्रहप्रसंगोपचितविषयसङ्गसद्भावेऽपि अन्तर्मुहूर्तात्मानुभवलीनानां सर्वज्ञत्वसिद्धिः कूर्मापुत्रादीनाम् । तेनानुभवाभ्यासः साध्यः शुद्धसाध्यरसिकैः । तदादरोपदेशः उपदिश्यते
सन्ध्येव दिनरात्रिभ्याम्, केवलश्रुतयोः पृथक् । बुधैरनुभवो दृष्टः, केवलार्कारुणोदयः ॥१॥
सन्ध्येव दिनरात्रिभ्यामिति- बुधैः-अवगततत्त्वस्वरूपैः, यथा दिनरात्रिभ्यां मध्यं सन्ध्या एव दृष्टा तथा केवलश्रुतयोः-केवलज्ञानश्रुतज्ञानयोः मध्यम् अनुभवो दृष्टः । श्रुतज्ञानस्य चिरकालाभ्यासितस्य कार्यरूपः केवलज्ञानस्य सम्यग्दृष्टिगुणस्थानकतः साध्यत्वेन लक्षीकृतस्यासाधारणकारणरूपोऽनुभवः अध्यात्मैकत्वानन्दरूपो दृष्टः । कथम्भूतोऽनुभवः ? केवलं-सकलासहायिज्ञानमेवार्कस्तस्य अरुणोदयः अरुणः-सूर्यसारथिस्तस्य उदयः । पूर्वम् अरुणोदयेन तत्सूर्योदयो भवति, एवम् अनुभवोदये केवलार्कोदयः अतोऽनुभवपूर्वकं केवलज्ञानम् । अनु
१. द्रव्यस्यानन्नता V.1: द्रव्यानन्त S.M. । २. ज्ञानावरणा० सर्वप्रतिषु । ३. श्रूयन्ते V.1.2., S.M., A.D. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org