SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १७६ श्रीज्ञानमञ्जरी भवश्च भावनाज्ञानैकत्वरूपः करणीय इति । उक्तं च समुच्चये- मति श्रुतोत्तरभावी केवलाद् अव्यवहितपूर्वभावी प्रकाशोऽनुभवः ॥१॥ व्यापारः सर्वशास्त्राणाम्, दिक्प्रदर्शन एव हि । पारं तु प्रापयत्येकोऽनुभवो भववारिधेः ॥२॥ व्यापार इति- सर्वशास्त्राणां च पुनरनुयोगकथकानाम्, व्यापार:उद्यमः अभ्यासः, दिक्प्रदर्शन एव-(मार्गदर्शक एव) । यथाहिपथिकस्य मार्गदर्शकः मार्ग दर्शयति, परं पुरप्राप्तिस्तु स्वचंक्रमणेनैव । एवं शास्त्राभ्यासः परमाप्रयासः स्वतत्त्वसाधनविधिदर्शकः, भववारिधेः- भवसमुद्रस्य पारं तु एकः अनुभवः प्रापयति नान्यः । श्रीसूत्रकृताङ्गादिषु अध्यात्मभावेन सिद्धिरित्युक्तत्वात् । तेन सद्गुरुचरणचञ्चरीकैः आत्मस्वरूपभासनतन्मयत्वं निष्पाद्यम् ॥२॥ अतीन्द्रियं परं ब्रह्म, विशुद्धानुभवं विना । शास्त्रयुक्तिशतेनापि, न गम्यं यद् बुधा जगुः ॥३॥ अतीन्द्रियमिति- बुधाः-पण्डिता इति जगुः इतीति किं ? शास्त्रयुक्तिशतेनापि-शास्त्रस्य युक्तयः तेषां शतेनापि अनेकागमरहस्यावबोधेनापि विशुद्धानुभवं विना-निर्मलानुभवमन्तरेण अतीन्द्रियम्-इन्द्रियज्ञानागम्यम्, परम्-उत्कृष्टम्, ब्रह्म-चैतन्यं न गम्यं न ज्ञातुं शक्यम् । न घटपटादिपदार्थसार्थसमर्थनशब्दसाधनस्वस्वमतस्थन्यासमुद्राचिन्तनविकल्पतल्पस्थाः सम्यग्ज्ञानिनः । स्याद्वादानेकान्तधर्मास्पदीभूतानन्तपर्यायोत्पादव्ययपरिणमनेसर्वज्ञेयावबोधामूर्ताखण्डानन्दात्मस्वरूपज्ञानं तु तत्त्वानुभवलीना एवास्वादन्ते, न वचोयुक्तिव्यक्तीकृतवाग्विलासाः इति ॥३॥ ज्ञायेरन् हेतुवादेन, पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः, कृतः स्यात्तेषु निश्चयः ॥४॥ १. मतन्यास० V.2.B.1.2. । २. परिणमनासर्वसंज्ञया V.1.2., S.M., A.D. I - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy