________________
१७४
श्रीज्ञानमञ्जरी रहितानां पुद्गलेषु भिन्नत्वाग्राह्यत्वेन त्यागवतां जगदेव न परिग्रहः, तत्र रमणाभावात् । उक्तं च श्रीविशेषावश्यके[108]तम्हा किमत्थि वत्थु, गंथोऽगंथो व सव्वहा लोए ? । गंथोऽगंथो व मओ, मुच्छममुच्छाहिं निच्छयओ ॥२५७३ ॥
वस्थाई तेण जं जं, संजमसाहणमरागदोसस्स । तं तमपरिग्गहो च्चिय परिग्गहो जं तदुवघाई ॥२५७४ ॥
[विशेषा० गा०-२५७३-७४] अत एव आत्मनः परभावरसिकत्वं परिग्रहः, ततः तद्धर्मत्वाभावात् आत्मस्वरूपरमणं युक्तम् ॥८॥ ॥ इति व्याख्यातं परिग्रहत्यागाष्टकं पञ्चविंशतितमम् ॥२५॥
अथ अनुभवाष्टकम् ॥२६॥ अथ श्रुताभ्यासपरिग्रहत्यागादयोऽप्यनुभवयुक्तस्य मोक्षसाधकाः, अनुभवशून्यस्य नेति तत्प्रतिपादनायानुभवाष्टकं निरूप्यते । अनुभवशून्यं ज्ञानम् उदकपयःकल्पम्, अनुभवयुक्तं तु पीयूषोपमम् । ज्ञानं तु सानुभवस्य । तथा च अनुयोगद्वारे- वायणा-पुच्छणा-परिअट्टणाधम्मकहा-सर-अक्खरवंजणसुद्धा अणुप्पेहारहियस्स दव्वसुयम्, अणुप्पेहा भावसुयं" इत्यनेन भावश्रुतं तु संवेदनरूपं न तत्त्वनिष्पादकम्, स्पर्शरूपं तत्त्वनिष्पादकमिति, [109] हरिभद्रपूज्याः- तत्स्पर्शज्ञानम् अनुभवयुक्तस्यैव, [षोड० १२, श्लो०१५] तल्लक्षणं च योगदृष्टिसमुच्चयानुसारेण लिख्यते- यथार्थवस्तुस्वरूपोपलब्धिपरभावारमणस्वरूपरमणतदास्वादनैकत्वमनुभवः हेयोपादेयज्ञानसुखास्वादरूपानुभवः । नामतः अभिधानम्, स्थापनातः स्थाप्यमानम्, द्रव्यानुभवः भुज्यमानशुभाशुभविपाकेषु अनुपयोगः अणुवओगो दव्वं इति वचनात्, भावानुभवः, अप्रशस्तः सांसारिकविषयकषायानामनुभवैकत्वम्, प्रशस्तः अर्हद्गुणानुरागैकत्वम् । शुद्धानुभवः स्वरूपानन्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org