________________
१६८
श्रीज्ञानमञ्जरी अदृष्टेति-जडा:-मूर्खाः, शास्त्रदीपं विना-आगमप्रकाशं विना अदृष्टे अनुपलब्धे अर्थे–कार्ये संवरनिर्जरामोक्षाभिधाने (अनु-) धावन्तः पदे पदे प्रस्खलन्तः-स्खलनां प्राप्नुवन्तः परं-प्रकृष्टं खेदं-क्लेशं प्राप्नुवन्ति-लभन्ते, अज्ञातशुद्धमार्गाः-अनेकोपायप्रवृत्ता अपि स्खलनां लभन्ते इति ॥५॥
शुद्धोञ्छाद्यपि शास्त्राज्ञानिरपेक्षस्य नो हितम् । भौतहन्तुर्यथा तस्य, पदस्पर्शनिवारणम् ॥६॥
शुद्धोञ्छादीति-शास्त्राज्ञानिरपेक्षस्य-आगमोक्ताज्ञारहितस्य, शुद्धोञ्छाद्यपि द्वाचत्वारिंशद्दोषरहिताहारग्राहकस्यापि नो हितं-न सुखकरम्, यथा भौतहन्तुः-तस्य स्वगुरोः पदस्पर्शनिवारणं न हितम् । अत्र यथा कस्य शबरस्य जीवद्भौतपदस्पर्शनिवारणम्, स मयूरपिच्छार्थी भौतं हत्वा पश्चात् स्पर्शं चकार । तथा आत्मानं हत्वा षट्जीवनिकायान् रक्षन् तद्वत्करोति । अतो मौढ्यं निवार्य तत्त्वज्ञानवता भवनीयम् । शुद्धाहारादिकं तनुयोगः, स्वरूपावलम्बनं महानुयोगः । इति तेन स्वरूपाचरणमन्तरेणाहारशुद्धात्मसाधनबुद्धयः भौतहिंसकवद् ज्ञेयाः ॥६॥
अज्ञानाहिमहामन्त्रम्, स्वाच्छन्द्यज्वरलङ्घनम् । धर्मारामसुधाकुल्याम्, शास्त्रमाहुमहर्षयः ॥७॥
अज्ञानाहीति-महर्षयः-महामुनीश्वराः, अज्ञानमेव अहि:-सर्पः तद्दमने महामन्त्रम्, च-पुनः स्वाच्छन्द्यं-स्वेच्छाचारित्वं तदेव ज्वरः तदपगमाय लङ्घनं-पाचनं धर्मारामसुधाकुल्यां-धर्म एव आरामः तस्मिन् सुधा अमृतं तस्य कुल्या-नीकिः, तस्याममृतं शास्त्रमाहुः-अमृतं शास्त्रम् उक्तवान्, अतः शास्त्राभ्यासो महासुखायेति ॥७॥
शास्त्रोक्ताचारकर्ता च, शास्त्रज्ञः शास्त्रदेशकः । शास्त्रकदृग् महायोगी, प्राप्नोति परमं पदम् ॥८॥
॥ इति शास्त्राष्टकम् ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org