________________
परिग्रहाष्टकम् (२५)
१६९ शास्त्रोक्तेति-एवंविधो महायोगी परम्-उत्कृष्टं पदं-स्थानं प्राप्नोति । कथम्भूतः ? शास्त्रोक्ताचारकर्ता-शास्त्रे-जैनागमे उक्तः य आचारः तस्य कर्ता करणशीलः । शास्त्रज्ञः-शास्त्रं-स्याद्वादागमं जानातीति शास्त्रज्ञः । पुनः शास्त्रदेशक:-शास्त्रस्य देशक:-कथकः । पुनः कीदृशः ? (शास्त्रैकग्-) शास्त्रे एका-अद्वितीया रहस्यग्राहिणी दृग्-दृष्टिर्यस्य स इति । एवं शास्त्रोक्तमार्गकारी, तज्ज्ञः, तदुपदेशकः, परमम्-उत्कृष्टं पदं प्राप्नोति । अतः सर्वादरेण जैनागमाभ्यासः करणीयः, येन तत्त्वाप्तिः । ज्ञानी सिद्धिसाधकः अत एव निर्ग्रन्थाः वाचयन्ति प्रवचनम्, प्रच्छयन्ति रहस्यम्, परिवर्तयन्ति सूत्रालापकान्, अनुप्रेक्षयन्ति भावनया तदर्थम्, तन्मयीभवन्ति आगमतत्त्वेषु मग्नाश्चानन्दयन्ति स्वात्मीयम्, तल्लाभलीलालालितचेतसः कुर्वन्ति धर्मकथाम्, अनुमोदयन्ति च महासूरिनिवहम्, अत एव योगोपधानक्रियामारचयन्ति, वसन्ति यावज्जीवं गुरुकुले शास्त्रावबोधप्रवीणतामिच्छन्तः ॥८॥
॥ इति व्याख्यातं शास्त्राष्टकम् ॥२४॥
अथ परिग्रहाष्टकम् ॥२५॥ परिग्रहेग्रहगृहीतस्यानेकोपार्जनसंरक्षणगोपनाविकलचेतनावतः न शास्त्रज्ञानं सम्यग् भवति, अतः परिग्रहत्यागोपदेशमुपदिशति । तत्र परिसमन्तात् ग्रहः ग्रहणरूपः परिग्रहः । तत्र द्रव्यतो धनधान्यादि । भावतः परवस्त्विच्छापरिणामः आशंसारूपः । तत्रात्मनः स्वपर्यायस्वामित्वपरिणते: स्वपर्यायावरणेनर तदभावात्, अशुद्धबलवीर्यगृहीतकर्मविपाकेषु शुभेषु हेतुभूतेषु प्रशस्ताप्रशस्तपरिणामेषु ममकारः परिग्रहः । स्वशुद्धसत्तागतगुणेभ्यः अन्यममकारस्वीकारसंरक्षणापरिणतिरूपा चेतनादिवृत्तिः परिग्रहः । आत्मनः स्वस्वरूपभासनरमणानुभवव्याघात: । अत एव त्याज्यः । द्रव्यपरिग्रहस्य भावपरिग्रहहेतुत्वात्, भावपरिग्रहस्याशुद्धोपा१. परिग्रहग्रहीतस्य B.1.2., V.2., S.M. | २. वरणे S.M., B.1.2. । ३. भवघातः V.2., B.1. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org