________________
शास्त्राष्टकम् (२४)
१६७ तस्य शासनात्–शिक्षणात् शास्त्रं निरूप्यते-व्युत्पाद्यते, [103] मोक्षमार्गस्य शासनात् शास्त्रम् इति तत्त्वार्थकृत् । [प्रशमगा०१८८] तु-पुनः, तद् वीतरागस्य–सर्वमोहक्षयनिष्पन्नपरमशमस्वभावस्य वचनं-मोक्षमार्गोपदेशकम्। उक्तं च उमास्वातिपूज्यैः[104] केवलमधिगम्य विभुः, स्वयमेव ज्ञानदर्शनमनन्तम् । लोकहिताय कृतार्थोऽपि, देशयामास तीर्थमिदम् ॥१८॥
[त०का० श्लो० १८] अतस्तस्यैव वचनं मोक्षाङ्गम् । अन्यस्य कस्यचित् असर्वज्ञस्य सर्वज्ञमानिनः वचनं न मोक्षहेतुः ॥३॥
शास्त्रे पुरस्कृते तस्माद्, वीतरागः पुरस्कृतः । पुरस्कृते पुनस्तस्मिन्, नियमात्सर्वसिद्धयः ॥४॥
शास्त्रे पुरस्कृत इति-तस्मात्कारणात् शास्त्रे-सिद्धान्ते पुरस्कृतेमुख्यतां कृते वीतरागः-अर्हन् पुरस्कृतः-अग्रेसरीकृतः । पुनः तस्मिन्वीतरागे पुरस्कृते नियमात्-निश्चयात् सर्वसिद्धयः भवन्ति । उक्तं च[105] अस्मिन् हृदयस्थे सति, हृदयस्थस्तत्त्वतो मुनीन्द्र इति । हृदयस्थिते च तस्मिन्, नियमात्सर्वार्थसंसिद्धिः ॥१४॥
षोड० प्र०षो०२, श्लो०१४] पुनः आगमे[106] आगमं आयरंतेण, अत्तणो हियकंखिणो । तित्थनाहो सयंबुद्धो, सव्वे ते बहुमन्निया ॥३५॥
[सं०स०-गा०३५] अत: आगमादरी अर्हन्मुनिसङ्घादरवान् इति ॥४॥ अदृष्टार्थेऽनुधावन्तः, शास्त्रदीपं विना जडाः ।
प्राप्नुवन्ति परं खेदम्, प्रस्खलन्तः पदे पदे ॥५॥ १. मुख्ये V.2.B.1.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org