SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ लोकसंज्ञात्यागाष्टकम् (२३) १६१ प्राप्तः षष्ठं गुणस्थानम्, भवदुर्गाद्रिलङ्घनम् । लोकसंज्ञारतो न स्यान्मुनिर्लोकोत्तरस्थितिः ॥१॥ प्राप्त इति-मुनिः-संयमी आश्रवविरतः, षष्ठं-सर्वविरतिलक्षणं प्रमत्ताख्यं प्राप्तः मुनिः लोकसंज्ञा लोकैः कृतं तत् कर्त्तव्यं गतानुगतिकतानीतिस्तत्र रतः-रागी गृहीतग्रहः न स्यात् । लोकैः कृतं तदेव करणीयमिति मति निवार्य आत्मसाधनोपायरतः स्यात् । किम्भूतं षष्ठं गुणस्थानं? भवः-संसारः स एव दुर्गाद्रिः-विषमपर्वतः तस्य लङ्घनम् । किंविशिष्टः मुनिः? लोकोत्तरस्थितिः-लोकातीतमर्यादया स्थितः । लोको हि विषयाभिलाषी, मुनिः निष्कामः । लोकः पुद्गलसम्पज्ज्येष्ठत्वमानी, मुनिर्ज्ञानादिसम्पदा श्रेष्ठः, अतः किल' किं लोकसंज्ञया तेषाम् ॥१॥ यथा चिन्तामणि दत्ते, बठरो बदरीफलैः । हहा जहाति सद्धर्मम्, तथैव जनरञ्जनैः ॥२॥ यथा चिन्तामणिमिति-यथा-येन प्रकारेण, कश्चित् बठर:- मूर्खः बदरीफलैः चिन्तामणि दत्ते । तथैव मूढः जनरञ्जनैः-लोकश्लाघाभिलाषैः सद्धर्म-द्रव्याचरणतत्त्वानुभवलक्षणम्, हहा इति खेदे जहातित्यजति, इत्यनेन जिनभक्तिश्रुतश्रवणाहारत्यागादिकं यशः-पूजादिना हारयन्ति । उक्तं चत्वत्तः सुदुष्प्रापमिदं मयाप्तम्, रत्नत्रयं भूरिभवभ्रमेण ।। प्रमादनिद्रावशतो गतं तत्, कस्याग्रतो नायक ! पूत्करोमि ॥४॥ वैराग्यरङ्गः परवञ्चनाय, धर्मोपदेशो जनरञ्जनाय । वादाय विद्याध्ययनं च मेऽभूत्, कियद् बुवे हास्यकरं स्वमीश ! ॥९॥ [रत्नाकरपञ्चविंशतिः गा० ८-९] लोकसंज्ञामहानद्यामनुस्रोतोऽनुगा न के । प्रतिस्त्रोतोऽनुगस्त्वेको, राजहंसो महामुनिः ॥३॥ १. V.1.A.D. प्रतौ नास्ति । २ S.M.,B.1.2.,V.2. प्रतौ नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy