________________
१६०
श्रीज्ञानमञ्जरी स्थैर्य भवेति-मुनि:-तत्त्वज्ञानी भवभयात्-नरकनिगोददुःखोद्वेगाद् एव व्यवहारे-एषणादिक्रियाप्रवृत्तौ स्थैर्यं व्रजेत्-गच्छेत्, लभेत । स्वात्मारामसमाधौ-स्वकीयात्मारामः स्वचेतनः, तस्य समाधौ-ज्ञानानन्दादिषु तद्-भवभयम्, अन्तर्मध्ये निमज्जति-लयीभवति, स्वत एव विनश्यति । आत्मध्यानलीलालीनानां सुखदुःखे समानावस्थानां भयाभाव एव भवति, इत्यनेन संसारोद्विग्नः प्रथमज्ञानदर्शचारित्राचाराभ्यासतो दृढीकृतयोगोपयोगस्थ: स्वरूपानन्तस्याद्वादतत्त्वैकत्वसमाधिस्थः सर्वत्र समावस्थो भवति । "मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः" इति । एवं स्वरूपलीनसमाधिमग्नानां निर्भयत्वमिति वस्तुस्वरूपावधारणेन विभावोत्पन्नकर्मोदयलक्षणे संसारे परसंयोगसम्भवे आत्मसत्ताभिन्नो निर्वेदः कार्यः ॥८॥
॥ इति व्याख्यातं भवोद्वेगाष्टकम् ॥२२॥
अथ लोकसंज्ञात्यागाष्टकम् ॥ २३ ॥ अथ निर्वेदी जीवः मोक्षसाधनोद्यमवर्ती लोकसंज्ञया न मुह्यति, लोकसंज्ञा हि धर्मसाधनव्याघातकरी आप्तैस्त्याज्या, इति तदुपदेशरूपं लोकसंज्ञात्यागाष्टकं विस्तार्यते । लोकः सप्तविधः-नामलोकः शब्दालापरूपः, स्थापनालोकः अक्षरलोकनालियन्त्रन्यासरूपः, रूप्यरूपिजीवाजीवात्मकः द्रव्यलोकः, ऊर्ध्वाधस्तिर्यग्लक्षणः क्षेत्रलोकः, समयावल्यादिकालपरिमाणलक्षणः काललोकः, नरनारकादिचतुर्गतिरूपः भवलोकः, औदयिकादिभावपरिणामः भावलोकः, द्रव्यगुणपर्यायपरिणमनरूपः पर्यवलोकः, इदं च सर्वमपि [98] आवश्यकनियुक्तितो [गा. १०५७] ज्ञेयम् । अथवा-द्रव्यलोकः संसाररूपः, अप्रशस्तभावलोकः परभावैकत्वजीवसमूहः, अत्र २भवलोकाप्रशस्तभावलोकस्य संज्ञा त्याज्या । लोकसंज्ञा च नयसप्तकेन धर्मार्थिभिः परिहरणीया ।
१. व्याघातकरा V.2.B.1.2. । २. भाव V.2.B.1.2. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org