________________
भवोद्वेगारकम् (२२) स्वसिद्ध्यर्थी प्रमादरहितः प्रवर्तते । पुनः दृष्टान्तयति यथा स्वयंवरे कन्यापरिणयनार्थी राधावेधोद्यतः स्थिरोपयोगयोगतया लघुलाघविकः स्थिरचित्तो भवति । तथा मुनिः भवभीत:-संसारसंसरणगुणावरणादिमहादुःखाद् भीतः क्रियासु-समितिगुप्तिकरणसप्ततिकरणरूपासु अनन्यचित्तः भवति । न अन्यत्र-अपरभावे चित्तं-मनो यस्य स अनन्यचित्तः स्यात् एकाग्रमानसो भवति । उक्तं च
गाईज्जंती सुरसुंदरीहिं, वाइज्जंता वि वीणमाईहि । तह वि हु समसब्मावा, चिटुंति मुणी महाभागा ॥१॥ पव्वयसिलायलगया, भावसिएहिं कडुअफासेहिं । उज्जलवेयणपत्ता, समचित्ता हुंति निग्गंथा ॥२॥ आमिसलुद्धेण वणे, सीहेण य दाढवक्कसंगहिआ । तहवि हु समाहिपत्ता, संवरजुत्ता मुणिवरिंदा ॥३॥ ६॥ कथमीदग्विपाके निर्भया निम्रन्थाः ? इत्युपदिशन्नोहविषं विषस्य बहेश, वहिरेव यदौषधम् । तत्सत्यं भवभीतानामुपसर्गेऽपि यन्न भीः ॥७॥
विषं विषस्य इति यथा कश्चित् विषारीः विषस्य औषधं विषमेव करोति । यथा-सर्पदष्ट निम्बादिचर्वणे न बिभेति । अथवा कश्चित् अग्निदग्धः पुनरपि अग्निदाहपीडावारणाय पुनः अग्नितापमङ्गीकरोति इति । तत्सत्यं यत्-यस्मात्कारणाद् भवभीतानां मुनीनामुपसर्गेऽपि भयं न । कर्मक्षपणोद्यतस्य उपसर्गेरे बहुकर्मक्षपणत्वं मन्वानः साधुः तदुदयं वेदन न भयवान् भवति । साध्यकार्यस्य निष्पद्यमानत्वाद् इति ॥७॥
स्थैर्य भवभयादेव, व्यवहारे मुनिव्रजेत् । स्वात्मारामसमाधौ तु, तदप्यन्तर्निमज्जति ॥
॥ इति भवोद्वेगाष्टकम् ॥२२॥ १. दर्शयन्ना V2 । २. उपसर्ग: V.2.B.1.2. । ३. वेदयन् V.2. 1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org