________________
कर्मविपाकचिन्तनाष्टकम् (२१)
१५१ प्रशंसादयः । संग्रहतः तद्योग्यताविशिष्टौ जीवपुद्गलौ । व्यवहारतः गृह्यमाणवर्गणासमूहः, प्राणातिपातादयश्च । ऋजुसूत्रतः बन्धहेतुपरिणता हेतुपरिणामाः सत्तास्थाः कर्मदलिका वा । शब्दतः चलोदीरणादिपूर्वकाः विपाकगतदलिकाः । समभिरूढतः ज्ञानाद्यनन्तगुणानां मध्ये यद्गुणरोधः तत्तस्यावरणम् । एवंभूततः स्वकर्तृता-ग्राहकता-वेत्तृता-व्यापकता-कर्मकार्यकरणप्रवृत्ता' इति । सिद्धसेनास्तु-"कर्मकर्तृता ग्राहकता शब्दनये, वेदकता व्यापकता समभिरूढनये, गुणावरणत्वम् एवंभूतनये," इत्यादि भावना कार्या । तत्र विपाकप्राप्ते कर्मणि शुभाशुभोदये माध्यस्थ्यं करणीयं तदर्थमुपदेशः
दुःखं प्राप्य न दीनः स्यात्, सुखं प्राप्य च विस्मितः । मुनिः कर्मविपाकस्य, जान-परवशं जगत् ॥१॥
दुःखं प्राप्य न दीनः स्यादिति-मुनिः-तत्त्वरसिकः दुःखम्असातादि प्राप्य दीनः न स्यात्, २कृतभोगे का दीनता ? करणकाले अविचारितकरणेन तद्विपाक ईदृशः । एवं च पुनः सुखं- "शातादि राज्यैश्वर्यादि प्राप्य विस्मितो न स्यात् । को विस्मयः५ ? स्वगुणावरणभूते विपाकमिष्टे कर्मणि । जगत्-लोकं कर्मविपाकस्य-शुभाशुभोदयस्य, परवशं-पराधीनं जानन् । सर्वं जगत् कर्माधीनं तत्त्वज्ञानी एवं कर्मविपाकमवगणय्य तत्त्वसाधने यत्नवान् भवति ॥१॥
येषां भ्रूभङ्गमात्रेण, भज्यन्ते पर्वता अपि । तैरहो कर्मवैषम्ये, भूपैर्भिक्षापि नाप्यते ॥२॥
येषां भ्रूभङ्गेति-येषां-पुरुषाणाम्, भ्रूभङ्गमात्रेण-भ्रूविक्षेपेण, पर्वता-गिरिवरा अपि भज्यन्ते, तैर्भूपैः(कर्मवैषम्ये-)कर्मणां वैषम्यं कर्मजनिता विषमता तस्मिन् कर्मोदये दुःखावस्थायां भिक्षापि न आप्यते-न प्राप्यते, इति शुभाशुभविपाकवैचित्र्यम् ॥२॥ १. प्रवृत्त्या B.2, V.2, S.M. | २. वश्यं B.1 । ३. स्वकृत० V.1A.D. ! ४. सुतादि A.D.V.1. विना । ५. विश्रयः V.1.A.D. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org