SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १५२ जातिचातुर्यहीनोऽपि, कर्मण्यभ्युदयावहे । क्षणाद् रङ्कोऽपि राजा स्यात्, छत्रच्छन्नदिगन्तरः ॥३॥ जातिचातुर्येति-कश्चिद् रङ्कोऽपि क्षणात् - क्षणमात्रेण, अभ्युदयावहेशुभोदर्के कर्मणि राजा स्यात् - भवेत् । कथम्भूतः रङ्कः ? जाति:- मातृका चातुर्यं - दक्षत्वं ताभ्यां हीनः -रहितः अपि भूपो भवति । किम्भूतो राजा ? छत्रेण-(आतपत्रेण), छन्नं-छादितम् आक्रान्तं दिगन्तरम् तम्, आक्रान्तं दिगन्तरं येन स इति भूचक्री अखण्डाज्ञावान् भवति विपाकपाकेन । तत्र नाश्चर्यम् । दुर्लभं हि सम्यग्दर्शनज्ञानचारित्रं शुद्धात्मधर्मम् ॥३॥ विषमा कर्मणः सृष्टिष्टा करभपृष्ठवत् । जात्यादिभूतिवैषम्यात्, का रतिस्तत्र योगिनः ॥४॥ विषमा कर्मण इति-कर्मणः सृष्टि:- रचना करभपृष्ठवत् विषमा दृष्टा । कस्मात् ? जात्यादिभूतिवैषम्यात् - जाति: कुलम् उच्चनीचादि-संस्थानवर्ण- स्वर - सम्पदादिभेदाद् महद् वैषम्यं तस्मात् । उक्तं प्रशमरतौ[94] 'देशकुलदेहविज्ञानायुर्बलभोगभूतिवैषम्यम् । दृष्ट्वा कथमिह विदुषाम् भवसंसारे रतिर्भवति ? ॥१०२॥ इति । तत्र शुभोदये - ऐश्वर्यादिकाले अनेकाशुद्धाध्यवसाये-परसंयोगोत्पत्तिरूपे, योगिनः- रत्नत्रयीपरिणतस्य का रति: ? न कापि । उक्तं चसुभेजोगो रइहेऊ, असुहजोगो अरइउत्ति । रागो वड्डड तेणं, अवरो दोसं विवई ॥ १ ॥ श्रीज्ञानमञ्जरी सिवमग्गविग्घभूया, कम्मविवागा चरित्तबाहकरा । धीराणं समया तेहिं, चायपरिणामओ चवई ॥२॥ इति ४॥ कर्मस्वरूपस्य मोक्षमार्गध्वंसित्वं दर्शयति आरूढाः ३ प्रशम श्रेणिम्, श्रुतकेवलिनोऽपि च । भ्राम्यन्तेऽनन्तसंसारमहो दुष्टेन कर्मणा ॥५॥ १. जातिकुल० सर्वप्रतिषु । २. सुभा. S. M. V.2. । ३. आरूढ: V.1. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy