________________
तत्त्वदृष्ट्यष्टकम् (१९)
१४३ उत्तराध्ययनेऽपि[89] न वि मुंडिएण समणो, न ॐकारेण बंभणो ।
न मुणी रण्णवासेणं, कुसचीरेण न तावसो ॥२९॥ समयाए समणो होई, बंभचेरेण बंभणो । नाणेण य मुणी होई, तवसा होई तावसो ॥३०॥
__[अ० २५. गा०२९-३०] [80] आत्मा सामायिकं भवति, इत्यादि व्याख्यायाम् । [भग० श० १, उ०९, सू०७६] अतः आत्मज्ञानरमणविश्रामानुभवलीना अदीना मुनयो भवन्ति ॥७॥
न विकाराय विश्वस्यो-पकारायैव निर्मिताः । स्फुरत्कारुण्यपीयूष-वृष्टयस्तत्त्वदृष्टयः ॥८॥
॥ इति तत्त्वदृष्ट्यष्टकम् ॥ १९ ॥ न विकाराय इति-आचार्यैः-गुरुभिः ग्रहणासेवनाशिक्षादानेन सूक्ष्मागमरहस्यशिक्षणेन यैः पाठकैः तत्त्वदृष्टयः पुरुषाः निर्मिता:निष्पादिता विकाराय न-रागद्वेषोपाधिविवृद्धये न-किन्तु विश्वस्य त्रिभुवनस्य उपकाराय-सदुपदेशदानशुद्धतत्त्वोपलम्भाधुपकाराय निर्मिता इति भावना । यथाऽनादिमिथ्यात्वासंयमग्रस्तानां वयं निर्यामकाः तथाऽन्येऽपि यथार्थभावनदक्षा' उपकाराय भविष्यन्ति, तेन एभ्यः श्रुतरहस्यं दातव्यम् । उक्तं च विधिप्रपायाम्
निज्जामउ भवणवतारणसद्धम्मजाणवत्तंमि । मोक्खपहसत्थवाहो, अन्नाणंधाण चक्खू य ॥१॥ अत्ताणाणं ताणं, नाहो अनाहाण भव्वसत्ताणं । तेण तुमं सप्पुरिस, गुरुअगच्छभारे नियुत्तोऽसि ॥२॥
[आयरियपयट्ठावणविही. २९... गा. १-२] इत्यादि । १. ज्ञानदक्षा-V.1. । २. वक्तव्यम् V.2., पातव्यम् S.M. (संशो.) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org