________________
१४४
श्रीज्ञानमञ्जरी भई बहुस्सुयाणं, बहुजणसंदेहपुच्छणिज्जाणं'। ( उज्जोइय भुवणाणं, झीणमि वि केवलमयंके ॥५०६॥)
[भ० भा० गा०५०६] बहुश्रुताध्ययने[90] समुद्दगम्भीरसमा दुरासया, अचक्किया केणइ दुप्पहंसया । सुयस्स पण्णा विउलस्स ताइणो, खवित्तु कम्मं गइमुत्तमं गया ॥३१॥
[उत्तरा०अ० ११ गा. ३१] इति । तत्त्वदृष्टित्वं हितम्, न अनेकशास्त्रव्यायामे बहुश्रुतत्वम्, निश्चितसमयज्ञो बहुश्रुतः । उक्तं च सन्मतौ[91] *जो हेउवायपक्खम्मि, हेडओ आगमे य आगमिओ । ससमयपण्णवओ सो, सिद्धंतविराहओ अन्नो ॥४५॥
[कां-३. गा० ४५] इति नयप्रमाणप्रमाणीकृतस्वपरसमयसाराः स्वरूपसाराभिरुद्धमोहप्रचाराः तत्त्वदृष्टयः । किम्भूता ? इत्याह- स्फुरन्ती कारुण्यं भवसमुद्रतारणोपकारित्वलक्षणं यत् पीयूषं तस्य वृष्टयः (वृष्टिः) वर्षा यत्र याः (येषु ये) इति जगज्जनतारणकरुणाऽमृतवृष्टिमया इत्यनेन कथम् एते लोकाः तत्त्वविमुखाः विषयरक्ताः आत्मानं ध्वंसयन्ति ? अहह सति जैनागमे, सति च अनन्तगुणपर्यायसत्तात्मके आत्मनि स्वभ्रान्त्या रमन्ते भवाटव्यामतः कथयामः धर्मरहस्यमित्युपकारपराः तत्वज्ञाः जगति महात्मानः स्तव्या इति बाह्यदृष्टित्वं परित्यज्य अन्तरतत्त्वावभासनरंसिका भवन्तु भव्याः ।।८।।
॥ इति व्याख्यातं तत्त्वदृष्ट्यष्टकम् ॥१९॥
अथ सर्वसमृद्धयष्टकं व्याख्यायते । सर्वा-समग्रा समृद्धिः-सम्पदा सर्वसमृद्धिः, तत्र नामसमृद्धिः * यतिल०समु० गा० १७६, उप०रह० गा० १५१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org