SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १४२ श्रीज्ञानमञ्जरी श्वकाकानां-श्वानकाकानां भक्ष्यं पश्यति कृमिकुलाकुलं पश्यति-कृमिमयं पश्यति। उक्तं च[88] नवस्रोतः स्त्रवद्विस्त्ररसनिस्यन्दपिच्छले । देहेपि शौचसंकल्पो, महन्मोहविजृम्भितम् ॥७३॥ [यो०शा० प्र० ४ श्लो० ७३] अतः कर्मोपाधिजं शरीरमहितं बन्धहेतुत्वात्, तत्र रागाभाव एव वरम् ॥५॥ गजाश्चैर्भूपभुवनम्', विस्मयाय बहिर्दशः । तत्राश्वेभवनात्कोऽपि भेदस्तत्त्वदृशस्तु न ॥६॥ गजाश्वैर्भूप इति–बहिर्दृशः-(बहिदृष्टेः) नरस्य भूपर्भुवनं-नृपगृहम्, गजाश्वैः- वारणाश्वगणैर्व्याप्तं विस्मयाय-आश्चर्याय भवति । तत्त्वदृशःतत्त्वज्ञानिनः तत्र-राजमन्दिरे अश्वेभवनात्-करितुरगवनात् कोऽपि भेदो न । अनन्तज्ञानानन्दाद्वैतात्मानुभवरक्ता वनं नगरतुल्यं जानन्ति ॥६॥ भस्मना केशलोचेन, वपुर्धतमलेन वा । महान्तं बाह्यदृग् वेत्ति, चित्साम्राज्येन तत्त्ववित् ॥७॥ भस्मनेति-बाह्यग्-बाह्यदृष्टिः भस्मना केशलोचेन-केशाकर्षणेन वपुषा-शरीरेण धृतो मलो येन तेन महत्वं-साधुत्वम् आचार्यत्वं वेत्ति । महत्त्वस्वरूपापरिज्ञानी जानाति । तत्त्ववित्-तत्त्वज्ञानी अरूपात्मस्वरूपावबोधी, चित्साम्राज्येन-ज्ञानसाम्राज्येन ज्ञानपूर्णत्वेन रत्नत्रयीपरिणमनेन शुद्धाखण्डानन्दसाधनप्रवृत्त्या स्वगुणप्राग्भावेन महान्तं वेत्ति-जानाति । उक्तं षोडशके[51] बालः पश्यति लिङ्गम्, मध्यमवृत्तिः विचारयति वृत्तम्। आगमतत्त्वं तु बुधः, परीक्षते सर्वयलेन ॥१२॥ १. भवनम् S.M.V.2.B.1.2. । २. भवनम्-V.2. । ३. वारणगुणे S.M. वारणगुणैः S.M. विना । ४. धृतं मलं सर्वप्रतिषु । ५. बुद्धिः सर्वप्रतिषु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy