SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ तत्त्वदृष्ट्यष्टकम् (१९) बाह्यष्टेः सुधासार - घटिता भाति सुन्दरी । तत्त्वदृष्टस्तु सा साक्षाद्, विण्मूत्रपिठरोदरा ॥ ४ ॥ बाह्यदृष्टेरिति–बाह्यदृष्टे:- संसाररक्तस्य, सुन्दरी - स्त्री सुधासारघटिता भाति - अमृतमयी इव भाति । तदर्थमर्जयन्ति धनम् त्यजन्ति प्राणान्, मोहमत्ता मुञ्जादयोऽनेके । तु- पुनः, तत्त्वदृष्टे:- निर्मलानन्दात्मस्वरूपावलोकनदक्षस्य सा - सुन्दरी विण्मूत्रपिठरोदरा भाति विट् विष्ठा मूत्रंप्रस्रवणं पिठरम् - अस्थि तेषाम् उदरा - भाजनरूपा भाति । उक्तं च १४१ [86] रसासृग्मांसमेदोऽस्थि-मज्जाशुक्रान्त्रवर्चसाम् । अशुचीनां पदं कायः, शुचित्वं तस्य तत्कुतः ? ॥७२॥ [ यो०शा० प्र० ४ श्लो० ७२] [87] वञ्चकत्वं नृशंसत्वम्, चञ्चलत्वं कुशीलता । इति नैसर्गिका दोषा, यासां तासु रमेत क: ? ? ॥८४॥ भवस्य बीजं नरक -द्वारमार्गस्य दीपिका । शुचां कन्दः कलेर्मूलम्, दुःखानां खानिरङ्गना ॥८७॥ [ यो० शा० प्र० २ श्लो० ८४, ८७] ★ (अन्यशास्त्रेऽपि - ⭑ • कान्ताकनकसूत्रेण वेष्टितं सकलं जगत् । तासु तेषु विरक्तो यो, द्विभुजः परमेश्वरः ॥१॥ ) इत्यादि तत्त्वज्ञस्य नारी मोहहेतुत्वाद् भवबीजरूपा भाति ॥४॥ पुन: उपदिशति— लावण्यलहरीपुण्यम्, वपुः पश्यति बाह्यग् । तत्त्वदृष्टिः श्वकाकानाम्, भक्ष्यं कृमिकुलाकुलम् ॥५॥ लावण्येति- बाह्यदृग्-लोकानुगतदृष्टिः, वपुः - शरीरं लावण्यलहरीपुण्यं - (सौन्दर्यलहरी) पवित्रं पश्यति । तत्त्वदृष्टिः सम्यग्ज्ञानी तत्तु १. किम् - सर्वप्रतिषु, २. मूलां - सर्वप्रतिषु । ★ सर्वप्रतिषु नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy