________________
१३८
श्रीज्ञानमञ्जरी स्थापनातः तद्विचारणास्थिरचित्तानां मुद्रान्यासाद्यवलम्बिनाम् । द्रव्यतः संवेदनज्ञानं विविक्ततत्त्वानाम् । भावतः अनुभवात्मस्पर्शज्ञाननिमग्नचित्तानाम् । संवेदनज्ञानं यावन्नयचतुष्टयम् । नयत्रयं स्पर्शज्ञानात्मक सम्यग्दर्शनसम्यक्चारित्रैकत्वध्यानैकतानिष्पन्नकेवलज्ञानिनाम् उत्सर्गत:१ तत्त्वदृष्टिर्बोद्धव्या सर्वोपायसमूहतः स्वतत्त्वे दृष्टिः कार्या । तदर्थमुपदेशः
रूपे रूपवती दृष्टिदृष्ट्वा रूपं विमुह्यति । मज्जत्यात्मनि नीरूपे, तत्त्वदृष्टिस्त्वरूपिणी ॥१॥
रूपे इति-रूपवती दृष्टिः पौद्गलिका-पुद्गलात्मिका पुद्गलस्वरूपग्राहिणी, दृष्टिः-चक्षुः, रूपं-श्वेतादिभेदं दृष्ट्वा रूपे-वर्णादौ वर्णगन्धरसस्पर्शलक्षणे, विमुह्यति-मोहसाद्भवति । तु-पुनः, अरूपिणीरूपरहिता दृग् ज्ञानरूपा आत्मचैतन्यशक्तिलक्षणा तत्त्वदृष्टिः नीरूपेनिर्गतमूर्तधर्मिणि वर्णादिरहिते, आत्मनि-शुद्धचैतन्यलक्षणे मज्जतिमग्नतां प्राप्नोति स्वरूपलीना भवति । अतो बाह्यदृष्टित्वमनादीनं विहाय स्वरूपोपयोगे दृष्टिः कार्या ॥१॥
भ्रमवाटी बहिदृष्टिभ्रंमच्छाया तदीक्षणम् । अभ्रान्तस्तत्त्वदृष्टिस्तु, नास्यां शेते सुखाऽऽशया ॥२॥
भ्रमवाटी इति२–बहिर्दृष्टिः-भ्रमोत्पन्ना भ्रमहेतुरिति निवारणीया भवहेतुत्वात् । तत्त्वदृष्टिः श्रेयोऽभ्रमवाटी । इति भो भव्य ! बहिर्दृष्टि:बाह्यभावावलोकनम्- 'इदं शोभनम्, इदम् अशोभनम्, इदं कृतम्, इदं करोमि इदं कार्यमि'त्याद्यवलोकनरूपा दृष्टिः । भ्रमवाटी-भ्रमस्य वाटी रक्षिका वृत्तिः भ्रमविकल्पवर्द्धनी बाह्यावलोकनेन तदिष्टानिष्टतादिचिन्तनेन विकल्पकल्पना जायते । चेतना च परावलोकनव्याकुलता स्वतत्त्वविमुखा तत्रैव रमते । उक्तं च
१. उत्सर्ग. V.1., A.D. । २. सर्वप्रतिषु नास्ति । ३. श्रेयाभ्रम B.2. S.M. A.D., V.1.2. । ४. रक्षका B.1.2., V.2. A.D., L.D.2., S.M. । ५. व्याकुला V.1., A.D. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org