________________
तत्त्वदृष्ट्यष्टकम् (१९)
१३७ निरपेक्षा इति-योगिनः-यमनियमाद्यष्टाङ्गयोगाभ्यासोत्पन्नरत्नत्रयीलक्षणस्वयोगसिद्धाः ईदृशा भवन्ति । निरपेक्षाः-निर्गता अपेक्षा अपेक्षणं १येभ्यस्ते निरपेक्षाः अपेक्षारहिता इत्यर्थः। अनवच्छिन्नाः-विच्छेदरहिताः। अनन्तचिन्मात्रमूर्तयः-अनन्तं-प्रान्तरहितम्, चित्-ज्ञानं तन्मात्रा-ज्ञानमात्रा मूर्तिः येषां ते अनन्तचिन्मात्रमूर्तयः । इत्यनेन परभावानुगतचेतनाविकलाः स्वच्छस्वरूपानुगतचेतनेपरिणताः गलितोत्कर्षापकर्षा:-गलितः उत्कर्षः-उन्मादः अपकर्षः-दीनता तयोः अनल्पाः कल्पनाः विकल्पजालपटलाः(नि) येषाम्, एवंविधा योगिनो ज्ञानपरिणताः-ज्ञानैकरसाः तिष्ठन्ति । ते एव तत्त्वसाधनचिन्मया इत्यतो मानोन्मादजनकः स्वोत्कर्षो निवार्यः ॥८॥ ॥ इति व्याख्यातम् अनात्मप्रशंसनाष्टकम् ॥१८॥
अथ तत्त्वदृष्ट्यष्टकम् । विशिष्टोदयेन पुण्यप्राग्भावभारभारितस्य३ क्षायोपशमिकमत्यादिप्राग्भारोत्पन्नानैकान्तिकतात्त्विकविकल्पकल्पनागौरवगरिष्ठस्य तत्त्वज्ञानविकलसकलजगज्जन्तुकृतस्तवनापूरपूरितश्रवणस्य तत्त्वदृष्टिम् ऋते स्वोत्कर्षपरिहारो न भवति, अतस्तत्त्वदृष्टिः कार्या । तस्य भावः तत्त्वंवस्तुस्वरूपम्, जीवे जीवत्वं तत्त्वमनन्तचैतन्यरूपम्, अजीवे अचैतन्यस्वरूपम् । तत्त्वं नाम अविपरीतस्याद्वादगोचरं जीवादिपदार्थस्वरूपं तत्रापि स्वस्वस्थाने धर्माधर्माकाशपुद्गलजीवानां तत्त्वत्वम् । तथापि अस्य ममात्मनः मत्स्वरूपं शुद्धचिद्रूपम् अनन्तानन्दस्वरूपमसङ्ख्येयप्रदेशानन्तज्ञानादिपर्यायपारिणामिकोत्पादव्ययध्रौव्यत्वषड्गुणपरिणतागुरुलघुपारमार्थिकैकान्तिकात्यन्तिकनिरतिशयाबाधनिःश्रेयसरूपं स्वतत्त्वम् । तत्र दृष्टि:-दर्शनं श्रद्धानं प्रतिप्रेक्षणं वा तत्त्वावलोकनं यथार्थावबोधयुक्ता श्रद्धादृष्टिः तत्त्वदृष्टिः । सा च नामतः उल्लापः अनेकानाम् ।
१. यैस्ते B.2. S.M. । २. चिन्तन A.D., V.1., विना । ३. सारितस्य B.1.2., A.D., S.M. V.2. । ४. ज्ञानपर्याय. S.M. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org