SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १३६ नाणाइणंतगुणोववेयं, अरुवमणहं च लोगपरिमाणं । कत्ता भोत्ता जीवं मन्नहु सिद्धाण तुल्लमिणं ॥ १ ॥ श्रीपूज्यैश्च [84] जीवो गुणपडिवन्नो नयस्स दव्वट्ठियस्स सामइयं । सो चेव पज्जवट्ठियनयस्स जीवस्स एस गुणो ॥२६४३ ॥ [विशेषा०गा० २६४३] [85] तथा ठाणांगे 'एंगे आया' [अ०१, सू०३] इत्यादि पाठात् सर्वत्र तुल्यत्वे आत्मनः सद्गुणप्राकट्ये क उत्कर्षः ? अशुद्धाः पर्याया औदयिकाः शक्रचक्रित्वादयः अपकृष्टत्वात् तुच्छत्वात् दोषत्वात् गुणघाततत्त्वज्ञानरमणोपघातकत्वात् शोफरोगपुष्टत्ववत् न उत्कर्षाय भवन्ति । किमेभिः पुद्गलोपचयरूपैः परोपाधिजैः संसर्गैश्च ? मे कदा निवृत्तिः एभ्यः, इति संवेगनिर्वेदपरिणतानां नोन्माद इति ॥ ६ ॥ पुनः आत्मानमुपदिशति क्षोभं गच्छन् समुद्रोऽपि स्वोत्कर्षपवनेरितः । गुणौघान् बुद्बुदीकृत्य, विनाशयसि किं मुधा ॥७॥ श्रीज्ञानमञ्जरी > क्षोभं गच्छन्निति- हे हंस ! स्वतत्त्वजलपूर्णस्वरूपमानसनिवासरसिकस्त्वं समुद्रोऽपि मुद्रा - साधुलिङ्गरूपा तया युक्तोऽपि स्वोत्कर्षपवनेरितः - साहंकारपवनप्रेरितः, क्षोभं गच्छन् -अध्यवसायैः एवमेवं भवन्, गुणौघान् - अभ्यासोत्पन्नान् श्रुतधरव्रतधरलक्षणान् आमर्षौषधिरूपान् बुद्बुदीकृत्य मुधा व्यर्थम्, किं विनाशयसि ? प्राप्तगुणगम्भीरो भव । स्वगुणाः स्वस्यैव हितहेतवः, तत्रः किं परदर्शनेन ? मानोपहताः गुणाः तुच्छीभवन्ति अतो न मानो विधेयः ||७|| निरपेक्षानवच्छिन्नानन्तचिन्मात्रमूर्त्तयः । योगिनो गलितोत्कर्षापकर्षानल्पकल्पनाः ॥८॥ ॥ इति अनात्मशंसाष्टकम् ॥१८॥ १. पुष्टि० सर्वप्रतिषु । २. निवृत्त: B. 2, V.2. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy