________________
अनात्मशंसाष्टकम् (१८)
१३५ उत्कर्ष-उन्मादः ? कैरिति शरीराणि-औदारिकादीनि विनाशिस्वभावानि रूपं-संस्थाननिर्माणवर्णनामकर्मोद्भवम्, लावण्यं चातुर्य-सौभाग्यनामोदयनिष्पन्नम्, वेदादिमोहसन्निकर्षसम्भवम्, ग्राम:-जननिवासलक्षणः, आरामा:-वनोद्यानभूमयः, धनं-गणिमधरिमादि, तेषां द्वन्द्वः तैः, क उत्कर्षः ? परत्वात् कर्मबन्धनिबन्धनात् स्वस्वरूपरोधकात् । तत्संयोगः निन्द्य एव । तर्हि क उत्कर्षः ? उक्तं च उत्तराध्ययने[82] धणेण किं धम्मधुराहिगारे, सयणेण वा कामगुणेहिं चेव । समणा भविस्सामो गणोहधारी, बहिं विहारा अभिगम्मभिक्खं ॥१७॥
[अ० १४. गा० १७] [83] न तस्स दुक्खं विभजंति णायओ,
न मित्तवग्गा न सुआ न बंधवा । इक्को सयं पच्चणुहोइ दुक्खं,
कत्तारमेवं अणुजाइ कम्मं ॥२३॥ [अ० १३. गा० २३] अतः आत्मगुणानन्दपरिणतानां कर्मोपाधिसम्भवे उत्कर्षो न भवति ॥५॥ शुद्धाः प्रत्यात्मसाम्येन, पर्यायाः परिभाविताः । अशुद्धाश्चाप्रकृष्टत्वान्नोत्कर्षाय महामुनेः ॥६॥
शुद्धा प्रत्यात्मेति-महामुनेः-निर्ग्रन्थस्य पाकोत्तीर्णजात्यकार्त्तस्वरवद् गृहीतात्मस्वरूपस्य शुद्धाः पर्यायाः सम्यग्ज्ञानचरणध्यानप्राग्भावरूपा आत्मपर्यायाः न उत्कर्षाय भवन्ति । कथं न भवन्तीत्याह-प्रत्यात्मसाम्येन परिभाविता:-आत्मानमात्मानं प्रति प्रत्यात्म, तत्र साम्येन तुल्यत्वेन भाविताः । भावना च 'किमाधिक्यं मम जातं ? तेन एते ज्ञानादयो गुणाः सर्वात्मनि सन्त्येव सर्वसाधारणे क उत्कर्षः ? इति भाविताशयः सर्वजीवानां ज्ञानाद्यनन्तपर्यायत्वं तुल्यं सिद्धसंसारस्थयोः न सत्ताभेदः । उक्तं च संवेगरङ्गशालायाम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org