________________
१३४
उच्चत्वदृष्टिदोषोत्थ- स्वोत्कर्षज्वरशान्तिकम् । पूर्वपुरुषसिंहेभ्यो, भृशं नीचत्वभावनम् ॥४॥ उच्चत्वदोषेति - अभ्यासात्प्राप्तज्ञानविनयतपोरूपगुणान्तर्ज्वलितमहामोहोदयेन आत्मनि उच्चत्वम् 'अहं गुणी, मया प्राप्तमिदं ज्ञानम्, विनयगुणवानहमिति', उच्चत्वदृष्टिदोषेण उत्थो यः स्वोत्कर्षः स एव ज्वरः तस्य शान्तिकमुपशमकारणं पूर्वपुरुषा:- अर्हदादयः ते एव सिंहा: तेभ्यः आत्मन्यूनत्वभावनं मानोदयतापनिर्वापणं ज्ञेयम् ।
धन्नो धन्नो वयरो, सालिभद्दो य थूलभद्दो अ । जेहिं विसयकसाया, चत्ता रत्ता गुणे नियए ॥ १ ॥
धन्याः पूर्वपुरुषाः ये वान्ताश्रवा अनादिभुक्तपरभावास्वादनरामणीयकं त्यजन्ति, सदुपदेशज्ञातासत्तासुखेप्सया आत्मधर्मश्रवणसुखमनुभूयमानाः चक्रिसम्पदा विपद इव मन्यन्ते रमन्ते स्वगुणेषु । धन्यः स्थूलभद्रः यो ह्यत्यातुररक्तकोश्याप्रार्थनाऽकम्पितपरिणाम:, अहं तु निरर्थक कुंविकल्पैः चिन्तयामि विषयविषोपायान् । उक्तं च[81] संते वि कोवि उज्झइ, कोवि असंते वि अहिलसइ भोए । चयइ परपच्चयेण वि, पभवो दद्धुं जहा जम्बू ॥३७॥
11811
श्रीज्ञानमञ्जरी
[उप०मा० गा०३७] इत्यादिभावनया स्वदोषचिन्तनेन आत्मोत्कर्षपरिणामो निवार्य:
शरीररूपलावण्य-ग्रामारामधनादिभिः ।
उत्कर्षः परपर्यायै - श्चिदानन्दघनस्य कः ॥५॥
शरीरेति - चिदानन्दघनस्य चिद् - ज्ञानम्, आनन्द:- सुखम्. ताभ्यां घनस्य आत्मनः परपर्यायै:- संयोगसम्भवैः पुद्गल सन्निकर्षोद्भवैः, क १. ज्ञानादि V. 1, A. D. । २. ज्ञातसत्ता A. D., ज्ञानसत्ता V.1. । ३. विकल्पतल्पे V. 1, A.D. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org