SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १२४ मनः स्याद्व्यापृतं यावत्, परदोषगुणग्रहे । कार्यं व्यग्रं वरं तावन्मध्यस्थेनाऽऽत्मभावने ॥५॥ मनः स्याद् व्यापृतमिति - परदोषगुणग्रहणे यावद् मनः व्यापृतं - व्यापारवत् स्यात् तावत् आत्मभावने - आत्मस्वरूपचिन्तने व्यग्रं तदायत्तं वरं - प्रधानं कार्यम् । केन ? मध्यस्थेन पुरुषेण समभावास्वादनरसिकेन । इत्यनेनात्मस्वरूपस्यामूर्त्तस्यागुरुलघुषड्गुणहानिवृद्धिपरिणमनोत्पादव्यय- ध्रौव्यतालक्षणस्वरूपचिन्तनगुणप्रवृत्तिः गुणान्तरसहकारप्रवृत्तिस्वरूपचिन्तनादिकं तत्र चिन्तने व्यग्रस्य सांसारिकगुणदोषचिन्तनावकाश एव न भवति । अत एव निर्ग्रन्थाश्चिन्तयन्ति भावनाचक्रम्, घोषयन्ति द्रव्यानुयोगग्रन्थम् प्रश्रयन्ति परस्परस्वभावविभावपरिणामम्, विलोकयन्ति आत्मस्वरूपं साऽऽवरणं निरावरणम्, विभजयन्ति हेतुगणपरिणामम् त्यजन्ति अशुद्धनिमित्तानि, विचारयन्ति निक्षेपाक्षेपम्, संमीलयन्ति नयाऽनुयोगम्, तन्मयीभवन्ति ध्यानादिषु यतोऽनादिविभावानुगतचेतनावीर्यप्रवर्त्तनगृहीतपरस्वरूपोपादेयतया परदोषगुणावलोकनाशुद्धचिन्तननिवारणार्थं मनः स्याद्वादानन्तपञ्चास्तिकायस्वरूपावलोकनाजीवहेयजीवोपादेयज्ञानं कार्यमिति ||५|| विभिन्ना अपि पन्थानः समुद्रं सरितामिव । मध्यस्थानां परं ब्रह्म, प्राप्नुवन्त्येकमक्षयम् ॥६॥ > ? Jain Education International श्रीज्ञानमञ्जरी विभिन्ना अपि इति - विभिन्ना - अनेकभेदभिन्ना अपि पन्थान:पञ्चध्यानमार्गसाधनपद्धतयः साधनाः अनेके द्रव्याचरणतः शुक्लध्यानं यावत् सम्यग्दृष्टि- अपुनर्बन्धकादयः, जिनकल्पाः स्थविरकल्पादयः सन्ति तथापि मध्यस्थानां मध्यस्थभाववर्त्तिनामेकमक्षयं परं ब्रह्म प्राप्नुवन्ति । इत्यनेन सर्वे साधनोपायाः एकं शुद्धमात्मस्वरूपं समवतरन्ति । सर्वेषां मोक्षसाधकानां साध्यैकत्वात्, कमिव ? समुद्रं सरितामिव यथा नद्यः समुद्रं गच्छन्ति, एवं तत्त्वैकत्वपरिणामानां सर्वं १. परस्परम् A.D.,V. 11 २. एष पाठो नास्ति । B. 1.2., A.D, V.2., S.M. I For Private & Personal Use Only - www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy