________________
माध्यस्थाष्टकम् (१६)
१२३ उक्तं च- तत्त्वार्थवृत्तौ नैगमेन देशग्राहिणा, संग्रहेण सामान्यग्राहिणा, व्यवहारेण विशेषग्राहिणा, ऋजुसूत्रेण वर्तमानवस्तुग्राहिणा, शब्देन वर्तमानभावग्राहिणा, समभिरूढेन प्रतिशब्दं भिन्नार्थग्राहिणा, एवंभूतेन स्वस्वपर्यायग्राहिणा, इत्याद्यनेकजीवाजीवेषु नयचालना तत्त्वार्थवृत्तितः ज्ञातव्या । तत्र ज्ञाने किञ्चिद् भाव्यते-तत्र नैगमः अक्षरानन्तभागरूपश्चेतनांश एकेन्द्रियावस्थः ज्ञानम् । संग्रहः सामान्यसत्तास्थो ज्ञानपरिणामः ज्ञानम् । व्यवहारः अष्टप्रकारमपि ज्ञानं वस्तुपरिच्छेदकत्वात् । ऋजुसूत्रः सम्यग्दृष्टेरर्हदभिहिततत्त्वश्रद्धायिनः यदिन्द्रियजमनिन्द्रियजं च तत्सर्वं ज्ञानम् । मिथ्यादृष्टेः सर्वमेव विपर्यासः । शब्दस्तु-श्रुतज्ञानकेवलज्ञाने ज्ञानम् । तत्र साम्प्रतः श्रुतादिज्ञानचतुष्टयं ज्ञानम् । समभिरूढः श्रुतज्ञान-केवलज्ञाने ज्ञानम् । एवंभूतः केवलज्ञानं ज्ञानम् । इत्येवं स्वपक्षस्थापनपरैर्नयैः स्वाभिमतप्रकाशकैः अनेके वक्तारः प्रतिवदन्ते-विवादास्पदीभवन्ति । तत्र येषां मनः समशीलं ते मध्यस्थाः उच्यन्ते, इत्येवं माध्यस्थ्यं समाश्रयणीयम् ॥३॥
स्वस्वकर्मकृतावेशाः, स्वस्वकर्मभुजो नराः । न रागं नाऽपि च द्वेषम्, मध्यस्थस्तेषु गच्छति ॥४॥
स्वस्वकर्म इति-तेषु-कर्मोदयेषु मध्यस्थः-समचित्तः न रागं च पुनः न द्वेषं गच्छति । कथंभूता नराः ? स्वस्वकर्मकृतावेशाः स्वे स्वे कर्मणि-आत्मीयात्मीये कर्मणि कृतः आवेशो यैस्ते स्वकीयकर्मवशा इत्यर्थः । सर्वे स्वस्य कर्मणः भोक्तारः इत्यनेन स्वकृतकर्मविपाकोदये शुभे च अशुभे च विपाकप्राप्ते सति समानचेतोवृत्तयः । सुरेन्द्रवृन्दवन्दितचरणा अपि, तथा दीनजनैः-लुब्धकधीवरैः विडम्ब्यमाना अपि न रागं च न द्वेषं च गच्छन्ति स मध्यस्थः समचित्तः उच्यते । उक्तं चावश्यकनिर्युक्तौ[23]वंदिज्जमाणा न समुक्कसंति, हेलिज्जमाणा न समुज्जलन्ति। दंतेण चित्तेण चलंति धीरा, मुणी सया समुग्धाइयरागदोसा ॥८६६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org