________________
१२२
श्रीज्ञानमञ्जरी
अत्रोच्यते नैते तन्त्रान्तरीयाः, नापि स्वतन्त्राः । किं तर्हि ? तदाह— विज्ञानगम्यस्य जीवादेः स्वसंवेद्यस्य वाच्यस्यार्थस्य घटपटादेरध्यवसायान्तराणि विज्ञानभेदाः, वस्त्वेवानेकधर्मात्मका ( कम ) नेकाकृतिना ज्ञानेन निरूप्यते, एकवस्तुविषया ज्ञानविशेषाः ते चोदाहरन्ति । घट इत्युक्ते नैगम:, (मन्यते) लोकप्रसिद्धकुम्भकारचेष्टानिर्वृत्तः पृथुबुध्नोदराकारः जलघृत क्षीरादीनामाहरणे देशान्तरसञ्चारणे समर्थः पाकजादिक्रियानिष्पन्नः द्रव्यविशेषः, कनकोपलजादिसमग्रसामान्य-विशेषव्यक्तिभेदग्राहकः सङ्कल्पयोग्यतत्सत्तादिदेशग्राहकविज्ञानविशेषेण घटः । एवं जीवोऽपि लोकप्रसिद्धचेतनायोगव्यापारः, चेष्टानिवृत्तः शरीराकारासङ्ख्येयप्रदेशानेकसंस्थानरूपः आहारविहारक्रियासमर्थः नरनारकामरादिरूपः अंशतः ज्ञशरीराद्यपर्याप्तादिसमग्रतः पर्यायादिद्रव्यविशेषो जीवः । संग्रह एकस्मिन् घटे बहुषु वा घटेषु नाम - स्थापना - द्रव्यलक्षणेषु अतीतानागतवर्त्तमानेषु पर्यायेषु सामान्यघटसम्प्रत्ययः घटज्ञानम्, तथा जीवे जीवेषु वा नामादिनिक्षेपरूपेषु त्रिकालपर्यायेषु सामान्यजीवसत्ताग्राहकज्ञानविशेषः, सूक्ष्मनिगोदात् सिद्धत्वपर्यन्तेषु तच्छरीरेषु च ज्ञशरीरभव्यशरीररूपेषु च तुल्यजीवज्ञानविशेषसंग्रहाध्यवसायः, आधिक्येनावसीयन्ते परिच्छिद्यन्ते ( पदार्थाः ) ततो येन सोऽध्यवसायः । व्यवहारस्तु जलाद्याहरणादिव्यवहारयुक्तो घटो घटः, सुखदुःखवेत्तृत्वादिव्यवहारपरो जीवो जीवः ।
,
ऋजुसूत्रस्तु वर्त्तमाननामस्थापनाद्रव्यभावघटानां चेष्टादिपर्यायाणां वाचको घटः एवं चतुर्निक्षेपमयो जीवः द्रव्यभावप्राणाधारत्वजीवत्ववस्तुतया वर्त्तमानो ग्राह्यः । साम्प्रतस्तु घटत्वशब्दवर्त्तमानसर्वपर्यायग्राही जीवत्वादिनामपर्यायव्यक्तवृत्तिर्जीवः इति ।
समभिरूढस्तु घटे कुटत्वादिपर्यायासंक्रमरूपः यत्पर्यायवृत्तितत्समुदितपर्यायाभिधायिजीवान्यतरपर्यायोऽसंक्रमस्वपर्यायवाचको जीवः । एवंभूतस्तु ज्ञानदर्शनसम्पूर्णपर्यायप्रवृत्तिवर्तिजीव इत्यभिधायकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org