________________
माध्यस्थाष्टकम् (१६)
११९ एवंभूतनय आह-'निमित्तं क्रियां कृत्वा शब्दः प्रवर्त्तते, नहि यदृच्छाशब्दोऽस्ति अतो घटमान एव घटः, कुटंश्च कुटो भवति, पूर्दारणप्रवृत्त एव पुरन्दरः, यथा दण्डसम्बन्धानुभवनप्रवृत्तस्यैव दण्डित्वमन्यथा व्यवहारलोपप्रसङ्गः, न चाऽसौ तदर्थः अनिमित्तत्वात् ।
पुनः नयस्यावयवविभागेन व्याख्यानमाह- निश्चयेन गम्यन्ते उच्चार्यन्ते प्रयुज्यन्ते येषु शब्दास्ते निगमा:-जनपदाः, तेषु निगमेषुजनपदेषु ये अक्षरात्मकानां ध्वनीनां सामान्यनिर्देशाः अभिहिता 'उच्चारिताः शब्दाः घटादयः तेषामर्थो जलधारणाऽऽहरणादिसमर्थः शब्दार्थपरिज्ञानं चेति शब्दस्य घटादिरर्थोऽभिधेयः, तस्य परिज्ञानमवबोधः, घट इत्यनेनायमर्थः उच्यते, अस्य चार्थस्य अयं वाचकः । यदेवंविधमध्यवसायान्तरं स नैगमः, स सामान्यविशेषालम्बीत्येतद् दर्शयति-देशसमग्रग्राही । यदा हि स्वरूपतो घटोऽयमिति निरूपयति तदा सामान्यघटं सर्वसामान्यव्यक्त्याश्रितं घटाभिधानप्रत्ययहेतुमाश्रयत्यतः समग्रग्राहीति । तथा विशेषतः सौवर्णो मृन्मयो राजतः श्वेत इत्यादिकं विशेषं निरूपयति ततो देशग्राहीति भण्यते नैगमनयः । साम्प्रतं संग्रहस्य अवयवार्थमाह- (अर्थानां सर्वैकदेशग्रहणं संग्रहः । त०भा०१।३५) अर्थानां सामान्यविशेषात्मकयोरेकीभावेन ग्रहणमाश्रयणमेवंविधोऽध्यवसायः संग्रहो भण्यते । एकीभावेन ग्रहणमेव द्रष्टव्यम्, यौ हि सामान्य-विशेषौ नैगमाभिमतौ(ती) संपिण्ड्य संग्रहनयः सामान्यमेव केवलं स्थापयति सत्तास्वभावम्, यतः सत्तातो न व्यतिरिच्यते विशेषः ।
*व्यवहारलक्षणाभिधित्सयाह-लौकिकाः विशेषाः, तैरेव घटादि१. निमित्ताम् सर्वप्रतिषु । २. शब्दाः प्रर्वतन्ते S.M., A.D., B.2., V.1. । ३. उद्घारिताः S.M., A.D., B.1, V.2. । ४. - सायान्तरः S.M., A.D., v.2, B.1 । * अत्र एवं भाति अधुना अवयवार्थ इति विषयश्चलति तत्र व्यवहारावयवार्थ इति स्थाने व्यवहारलक्षण० किमर्थम् ? इत्यारेका । अस्मिन्विषये तत्त्वार्थटीकायां श्रीसिद्धसेनाचार्या एवं कथयन्ति- लौकिका:-पुरुषास्तै सम:तुल्यः, यथा लौकिका विशेषैरेव घटादिभिर्व्यवहरन्ति तथायमपीत्यतस्तत्समः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org